Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 303
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - उषाः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
4

प्र꣡त्यु꣢ अदर्श्याय꣣त्यू꣢३꣱च्छ꣡न्ती꣢ दुहि꣣ता꣢ दि꣣वः꣢ । अ꣡पो꣢ म꣣ही꣡ वृ꣢णुते꣣ च꣡क्षु꣢षा꣣ त꣢मो꣣ ज्यो꣡ति꣢ष्कृणोति सू꣣न꣡री꣢ ॥३०३॥

स्वर सहित पद पाठ

प्र꣡ति꣢꣯ । उ꣣ । अदर्शि । आयती꣢ । आ꣣ । यती꣢ । उ꣣च्छ꣡न्ती꣢ । दुहि꣣ता꣢ । दि꣣वः꣢ । अ꣡प꣢꣯ । उ꣣ । मही꣢ । वृ꣣णुते । च꣡क्षु꣢꣯षा । त꣡मः꣢ । ज्यो꣡तिः꣢꣯ । कृ꣣णोति । सून꣡री꣢ । सु꣣ । न꣡री꣢꣯ ॥३०३॥


स्वर रहित मन्त्र

प्रत्यु अदर्श्यायत्यू३च्छन्ती दुहिता दिवः । अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरी ॥३०३॥


स्वर रहित पद पाठ

प्रति । उ । अदर्शि । आयती । आ । यती । उच्छन्ती । दुहिता । दिवः । अप । उ । मही । वृणुते । चक्षुषा । तमः । ज्योतिः । कृणोति । सूनरी । सु । नरी ॥३०३॥

सामवेद - मन्त्र संख्या : 303
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 8;
Acknowledgment

पदार्थः -
(आयती) आगच्छन्ती (उच्छन्ती) उदयं भजमाना। उछी विवासे, भ्वादिस्तुदादिश्च। (दिवः दुहिता) द्युलोकस्य पुत्री उषाः (प्रति अदर्शि उ) प्रतिदृष्टास्ति खलु। (मही) महती एषा उषाः (चक्षुषा) दर्शनप्रदानेन। चष्टे पश्यतिकर्मा। निघं० ३।११। (तमः) अन्धकारम् (अप उ वृणुते) अपाकरोति। (सूनरी२) सुनेत्री इयम् उषाः। सूनरी इति उषर्नामसु पठितम्। निघं० १।८। (ज्योतिः) प्रकाशम् (कृणोति) जनयति। कृवि हिंसाकरणयोः इत्यस्य रूपम् ॥१॥ अत्र स्वभावोक्तिरलङ्कारः। प्राकृतिक्या उषसो वर्णनाच्चाध्यात्मिकी उषा व्यज्यते ॥१॥

भावार्थः - यथा सूर्योदयात् प्राग् व्याप्तं निविडं नैशं तमो व्युदस्यन् प्राकृतिक्या उषसः प्रकाशः सर्वत्र प्रसरति, तथैव परमात्मरूपस्य सूर्यस्योदयात् प्राङ्मनोभूमौ व्याप्तं तामसवृत्तीनां जालं विच्छिन्दन्नाध्यात्मिक्या उषसः प्रकाशो जीवात्मानं व्याप्नोति। सेयमुषा योगमार्गे ऋतम्भरा प्रज्ञेति३ नाम्ना ख्याता ॥१॥

इस भाष्य को एडिट करें
Top