Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 34
ऋषिः - उशना काव्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
9

क꣡स्य꣢ नू꣣नं꣡ प꣢꣯रीणसि꣣ धि꣡यो꣢ जिन्वसि सत्पते । गो꣡षा꣢ता꣣ य꣡स्य꣢ ते꣣ गि꣡रः꣢ ॥३४॥

स्वर सहित पद पाठ

क꣡स्य꣢꣯ । नू꣣न꣢म् । प꣡री꣢꣯णसि । प꣡रि꣢꣯ । न꣣सि । धि꣡यः꣢꣯ । जि꣣न्वसि । सत्पते । सत् । पते । गो꣡षा꣢꣯ता । गो꣢ । सा꣣ता । य꣡स्य꣢꣯ । ते꣣ । गि꣡रः꣢꣯ ॥३४॥


स्वर रहित मन्त्र

कस्य नूनं परीणसि धियो जिन्वसि सत्पते । गोषाता यस्य ते गिरः ॥३४॥


स्वर रहित पद पाठ

कस्य । नूनम् । परीणसि । परि । नसि । धियः । जिन्वसि । सत्पते । सत् । पते । गोषाता । गो । साता । यस्य । ते । गिरः ॥३४॥

सामवेद - मन्त्र संख्या : 34
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 14
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment

पदार्थः -
हे (सत्पते) सतां पालक अग्ने ज्योतिर्मय परमात्मन् ! त्वम् (नूनम्) निश्चयेन (कस्य) कस्य जनस्य (धियः) बुद्धीः (परीणसि२) बहु। परीणसेति बहुनाम। निघं० ३।१। (जिन्वसि) सन्मार्गे प्रेरयसि? इति प्रश्नः। जिन्वतिः गतिकर्मा। निघं० २।१४। अथोत्तरमाह—(यस्य) यस्य जनस्य (ते) तव (गिरः) उपदेशवाचः (गोसाता) गोसातये, गवां श्रेष्ठधेनूनां, श्रेष्ठेन्द्रियबलानां, श्रेष्ठपृथिवीराज्यानां, श्रेष्ठात्मकिरणानां च सातये लाभाय भवन्ति, तस्यैव बुद्धयः सन्मार्गे त्वया प्रेरिता इति मन्तव्यम्। सातिः इति सनतेः सनोतेर्वा ऊतियूतिजूतिसातिहेतिकीर्तयश्च।’ अ० ३।३।९७ इति क्तिनि निपात्यते। गोसातये इति प्राप्ते सुपां सुलुक्०।’ अ० ७।१।३९ इति चतुर्थ्येकवचनस्य डादेशः। संहितायां पूर्वपदात्।’ अ० ८।३।१०६, सनोतेरनः अ०’ ८।३।१०८ इति सस्य षत्वम् ॥१४॥

भावार्थः - यो जनः परमात्मोपदेशमुपश्रुत्य प्रचुरप्रचुरां भौतिकीमाध्यात्मिकीं च सम्पदमधिगच्छति, स एव परमात्मनः कृपापात्रमिति मन्तव्यम् ॥१४॥ अत्र परमात्मादेर्महत्त्ववर्णनपूर्वकं तत्स्तुत्यर्थं प्रेरणादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिर्वेद्या ॥ इति प्रथमे प्रपाठके पूर्वार्धे तृतीया दशतिः ॥ इति प्रथमेऽध्याये तृतीयः खण्डः ॥

इस भाष्य को एडिट करें
Top