Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 35
ऋषिः - शंयुर्बार्हस्पत्यः देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
5

य꣣ज्ञा꣡य꣢ज्ञा वो अ꣣ग्न꣡ये꣢ गि꣣रा꣡गि꣢रा च꣣ द꣡क्ष꣢से । प्र꣡प्र꣢ व꣣य꣢म꣣मृ꣡तं꣢ जा꣣त꣡वे꣢दसं प्रि꣣यं꣢ मि꣣त्रं꣡ न श꣢꣯ꣳसिषम् ॥३५॥

स्वर सहित पद पाठ

य꣣ज्ञा꣡य꣢ज्ञा । य꣣ज्ञा꣢ । य꣣ज्ञा꣢ । वः । अग्न꣡ये꣢ । गि꣣रा꣡गि꣢रा । गि꣣रा꣢ । गि꣣रा । च । द꣡क्ष꣢꣯से । प्र꣡प्र꣢꣯ । प्र । प्र꣣ । वयम्꣢ । अ꣣मृ꣡तम्꣢ । अ꣣ । मृ꣡तम्꣢꣯ । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । प्रियम्꣢ । मि꣣त्रम्꣢ । मि꣣ । त्रम्꣢ । न । शँ꣣सिषम् ॥३५॥


स्वर रहित मन्त्र

यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे । प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शꣳसिषम् ॥३५॥


स्वर रहित पद पाठ

यज्ञायज्ञा । यज्ञा । यज्ञा । वः । अग्नये । गिरागिरा । गिरा । गिरा । च । दक्षसे । प्रप्र । प्र । प्र । वयम् । अमृतम् । अ । मृतम् । जातवेदसम् । जात । वेदसम् । प्रियम् । मित्रम् । मि । त्रम् । न । शँसिषम् ॥३५॥

सामवेद - मन्त्र संख्या : 35
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment

पदार्थः -
हे मनुष्याः, (यज्ञायज्ञा) यज्ञे यज्ञे। सुपां सुलुक्’ अ० ७।३।३९ इति सप्तम्या आकारादेशः वीप्सायां द्वित्वम्। (वः) युष्मान् (अग्नये) सद्गुणप्रेरकाय परमात्मने, तमाराद्धुमित्यर्थः, नियुनज्मि इति शेषः। (गिरागिरा च२) वाचा वाचा च, प्रत्येकप्रभावजनकवाक्यावली- विन्यासेनेति भावः (दक्षसे३) वर्द्धितुम्, उन्नतिं कर्तुं, प्रेरयामि इति शेषः। वृद्ध्यर्थकाद् दक्षधातोः तुमर्थे सेसेनसे असेन्० अ० ३।४।९ इति तुमर्थे असेन्’ प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। (वयम्) यूयं वयं च सर्वे मिलित्वा (अमृतम्) अमरणधर्माणम्, अविनश्वरम् (जातवेदसम्) सर्वज्ञं सर्वव्यापकं च परमेश्वरम् (प्रप्र)४ प्रशंसामः प्रशंसामः, भूयोभूयः प्रशंसाम इत्यर्थः। किञ्च, पृथगप्यहं तम् (प्रियम्) स्निग्धम् (मित्रं न) सखायमिव (प्रप्र शंसिषम्५) भूयो भूयः प्रशंसामि। शंसु स्तुतौ धातोर्लेटि रूपम् ॥१॥६ अत्रोपमालङ्कारः ॥१॥

भावार्थः - मनुष्यैर्येऽपि नैत्यिका नैमित्तिका वा यज्ञा आयोज्यन्ते तेषु परमेश्वरोऽवश्यं स्मरणीय आराधनीयश्च। महापुरुषा जनान् प्रेरयेयुर्यद् यूयं सततं वृद्ध्यै समुन्नत्यै च प्रयतध्वम्। एवमुपदेशका उपदेश्याश्च सर्वे संभूयैकमत्येन सर्वज्ञस्य सर्वव्यापकस्य परमात्मनः स्तुतिं कुर्युः, ऐहलौकिकपारलौकिकाभ्युदयं च प्राप्नुयुः ॥१॥

इस भाष्य को एडिट करें
Top