Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 36
ऋषिः - भर्गः प्रागाथः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
5
पा꣣हि꣡ नो꣢ अग्न꣣ ए꣡क꣢या पा꣣ह्यू꣡३꣱त꣢ द्वि꣣ती꣡य꣢या । पा꣣हि꣢ गी꣣र्भि꣢स्ति꣣सृ꣡भि꣢रूर्जां पते पा꣣हि꣡ च꣢त꣣सृ꣡भि꣢र्वसो ॥३६॥
स्वर सहित पद पाठपा꣣हि꣢ । नः꣣ । अग्ने । ए꣡क꣢꣯या । पा꣣हि꣢ । उ꣣त꣢ । द्वि꣣ती꣡य꣢या । पा꣣हि꣢ । गी꣣र्भिः꣢ । ति꣣सृ꣡भिः꣢ । ऊ꣣र्जाम् । पते । पाहि꣢ । च꣣तसृ꣡भिः꣢ । व꣣सो ॥३६॥
स्वर रहित मन्त्र
पाहि नो अग्न एकया पाह्यू३त द्वितीयया । पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥३६॥
स्वर रहित पद पाठ
पाहि । नः । अग्ने । एकया । पाहि । उत । द्वितीयया । पाहि । गीर्भिः । तिसृभिः । ऊर्जाम् । पते । पाहि । चतसृभिः । वसो ॥३६॥
सामवेद - मन्त्र संख्या : 36
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
विषयः - अथ परमेश्वरो विद्वाँश्च प्रार्थ्यते।
पदार्थः -
प्रथमः—परमात्मपरः। हे (ऊर्जां पते) अन्नानां रसानां बलानां प्राणानां चाधिपते ! ऊर्जम् अन्नं रसं चेति निरुक्तम्। ९।४१। ऊर्जं बलप्राणनयोः, क्विप्। (वसो) वसति सर्वत्र वासयति वेति (वसुः), तादृश सर्वान्तर्यामिन् सर्वनिवासप्रद (अग्ने) परमात्मन् ! त्वम् (नः) अस्मान् (एकया) ऋग्रूपया गिरा (पाहि) रक्ष, (उत) अपि च (द्वितीयया) यजुराख्यया गिरा (पाहि) रक्ष। (तिसृभिः) ऋग्यजुः- सामात्मिकाभिः संमिलिताभिः (गीर्भिः) वाग्भिः (पाहि) रक्ष। (चतसृभिः) ऋग्यजुःसामाथर्वरूपाभिः संमिलिताभिः वाग्भिः, (पाहि) रक्ष।२ अत्र चतुःकृत्वः पाहि इति पाठात् परमेश्वरेण करणीयाया रक्षायाः सातत्यं द्योत्यते ॥ अथ द्वितीयः—विद्वत्परः। हे (ऊर्जां पते) बलानां पालक, (वसो) सुवासप्रद (अग्ने) पावकवद् विद्वन् ! त्वम् (एकया) सुशिक्षया (नः) अस्मान् (पाहि) रक्ष, (उत) अपिच (द्वितीयया) अध्यापनक्रियया (पाहि) रक्ष, (तिसृभिः) कर्मोपासनाज्ञानज्ञापिकाभिः (गीर्भिः) वाग्भिः (पाहि) रक्ष, (चतसृभिः) धर्मार्थकाममोक्षविज्ञापिकाभिः वाग्भिः (पाहि) रक्ष ॥२॥३
भावार्थः - चतस्रो वेदवाचः परमेश्वरेणास्माकं हिताय प्रदत्ताः सन्ति। यदि वयं वेदवर्णितान्ज्ञानकर्मोपासनाविज्ञानविषयानधीत्य कर्तव्यकर्माण्याचराम- स्तदा निःसंशयं वयं रक्षिता भवामः। विद्वभिर्वेदानध्याप्य वेदविहितान् धर्मार्थकाममोक्षाँश्चोपदिश्यास्माकं रक्षा विधेया ॥२॥
टिप्पणीः -
१. ऋ० ८।६०।९, य० २७।४३, साम० १५४४। २. गिरा एकया ऋग्लक्षणया। द्वितीयया गिरा यजुर्लक्षणया। तिसृभिर्गीर्भिः ऋग्यजुःसामलक्षणाभिः। चतसृभिः ऋग्यजुःसामनिगद- लक्षणाभिः—इति वि०। ३. अयं विद्वत्परोऽर्थः य० २७।४३ इत्यस्य दयानन्दभाष्यमनुसरति। ४. यह विद्वत्परक अर्थ य० २७।४३ के दयानन्द-भाष्य के अनुसार है।