Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 37
ऋषिः - शंयुर्बार्हस्पत्यः देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
7

बृ꣣ह꣡द्भि꣢रग्ने अ꣣र्चि꣡भिः꣢ शु꣣क्रे꣡ण꣢ देव शो꣣चि꣡षा꣢ । भ꣣र꣡द्वा꣢जे समिधा꣣नो꣡ य꣢विष्ठ्य रे꣣व꣡त्पा꣢वक दीदिहि ॥३७॥

स्वर सहित पद पाठ

बृ꣣ह꣡द्भिः꣢ । अ꣣ग्ने । अ꣣र्चिभिः꣢ । शु꣣क्रे꣡ण꣢ । दे꣣व । शोचि꣡षा꣢ । भ꣣र꣡द्वा꣢जे । भ꣣र꣢त् । वा꣣जे । समिधानः꣢ । सम्꣣ । इधानः꣢ । य꣣विष्ठ्य । रेव꣢त् । पा꣣वक । दीदिहि ॥३७॥


स्वर रहित मन्त्र

बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा । भरद्वाजे समिधानो यविष्ठ्य रेवत्पावक दीदिहि ॥३७॥


स्वर रहित पद पाठ

बृहद्भिः । अग्ने । अर्चिभिः । शुक्रेण । देव । शोचिषा । भरद्वाजे । भरत् । वाजे । समिधानः । सम् । इधानः । यविष्ठ्य । रेवत् । पावक । दीदिहि ॥३७॥

सामवेद - मन्त्र संख्या : 37
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment

पदार्थः -
हे यविष्ठ्य नित्यतरुण। अतिशयेन युवा यविष्ठः, स एव यविष्ठ्यः। युवशब्दाद् इष्ठन् प्रत्ययः। ततो नवसूर्तमर्तयविष्ठेभ्यो यत् अ० ५।४।२५ वा० इति स्वार्थे यत् प्रत्ययः। (पावक) पवित्रयितः, (देव) दातः (अग्ने) तेजस्विन् परमेश्वर ! (बृहद्भिः) महद्भिः (अर्चिभिः) तेजोभिः, (शुक्रेण) शुद्धेन। शुच्यते पवित्रीभवतीति शुक्रः। शुचिर् पूतीभावे धातोः ऋज्रेन्द्राग्र०’ उ० २।२९ इति रन्-प्रत्ययान्तो निपातः। (शोचिषा) ज्ञानप्रकाशेन च (भरद्वाजे२) भरन् बिभ्रद् वाजं बलं स्वात्मनि यः स भरद्वाजः पुरुषार्थ-प्रियः, तादृशे मयि स्तोतरि, यद्वा भरद्वाजे बलोत्साहसम्पन्ने मदीये मनसि। मनो वै भरद्वाज ऋषिः। श० ८।१।१।९। (समिधानः) प्रकाशमानः सन् (रेवत्) समृद्धियुक्तं यथा भवति तथा। धनवाचकाद् रयिशब्दान्मतुपि रयेर्मतौ बहुलम्’ अ० ६।१।३७ वा० इति सम्प्रसारणम्। (दीदिहि) देदीप्यस्व। दीदयतिः ज्वलतिकर्मा। निघं० १।१६ ॥३॥

भावार्थः - मनुष्यैः पुरुषार्थिभिरेव भूत्वा परमेश्वर आह्वातव्यः। अकर्मण्यस्य प्रार्थनां स न कर्णे करोति ॥३॥

इस भाष्य को एडिट करें
Top