Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 364
ऋषिः - प्रियमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - ऐन्द्रं काण्डम्
5
वि꣣श्वा꣡न꣢रस्य व꣣स्प꣢ति꣣म꣡ना꣢नतस्य꣣ श꣡व꣢सः । ए꣡वै꣢श्च चर्षणी꣣ना꣢मू꣣ती꣡ हु꣢वे꣣ र꣡था꣢नाम् ॥३६४॥
स्वर सहित पद पाठवि꣣श्वा꣡न꣢रस्य । वि꣣श्व꣢ । नर꣣स्य । वः । प꣡ति꣢꣯म् । अ꣡ना꣢꣯नतस्य । अन् । आ꣣नतस्य । श꣡व꣢꣯सः । ए꣡वैः꣢꣯ । च꣣ । चर्षणीना꣢म् । ऊ꣣ती꣢ । हु꣣वे । र꣡था꣢꣯नाम् ॥३६४॥
स्वर रहित मन्त्र
विश्वानरस्य वस्पतिमनानतस्य शवसः । एवैश्च चर्षणीनामूती हुवे रथानाम् ॥३६४॥
स्वर रहित पद पाठ
विश्वानरस्य । विश्व । नरस्य । वः । पतिम् । अनानतस्य । अन् । आनतस्य । शवसः । एवैः । च । चर्षणीनाम् । ऊती । हुवे । रथानाम् ॥३६४॥
सामवेद - मन्त्र संख्या : 364
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 2;
Acknowledgment
विषयः - अथ बलाधिपतिः परमेश्वरो नृपतिश्चाहूयते।
पदार्थः -
प्रथमः—परमात्मपरः। हे इन्द्र जगदीश्वर ! (विश्वानरस्य) सर्वजगत्संचालकस्य। विश्वं सर्वं जगत् नृणाति नयतीति विश्वानरः। पूर्वपदस्य दीर्घश्छान्दसः। नॄ नये क्र्यादिः। (अनानतस्य) क्वचिदपि अपराजितस्य (शवसः) बलस्य (पतिम्) अधीश्वरम् (वः) त्वाम् छन्दसि षष्ठीचतुर्थीद्वितीयासु एकवचनस्यापि युष्मदस्मदोर्वस्नसादेशौ दृश्येते। चर्षणीनाम् मनुष्याणाम् (एवैः) कामैः निमित्तभूतैः। एवैः कामैरिति यास्कः। निरु० १२।२०। तेषां सत्कामानां पूर्त्यर्थमिति भावः, (रथानाम्) तदीयशरीररथानाम् (ऊती) लक्ष्यं प्रति प्रेरणाय रक्षणाय च। गत्यर्थस्य रक्षणार्थस्य च अव धातोः क्तिनि निपातः ‘ऊतिः’ इति। ततः ऊतिशब्दात् चतुर्थ्येकवचने ‘सुपां सुलुक्०। ७।१।३९’ इति पूर्वसवर्णदीर्घः। अहम् (हुवे) आह्वयामि ॥ अथ द्वितीयः—राजपरः। हे राजन् ! विश्वानरस्य सर्वेभ्योऽग्रेसरस्य, (अनानतस्य) शत्रूणां पुरतः अपराजितस्य (शवसः) सैन्यस्य (पतिम्) अधीश्वरम् (वः) त्वाम् (चर्षणीनाम्) प्रजाजनानाम् (एवैः) महत्त्वाकाङ्क्षाणां प्रारब्धानां महतां कार्याणां वा पूर्त्यर्थम्। एवः इति इच्छार्थाद् गत्यर्थाद् वा इण् धातोः वन् प्रत्यये रूपम्। (रथानाम्) विमानादियानानाम् (ऊती) गमनाय च (हुवे) आह्वयामि ॥५॥ मन्त्रमिमं यास्काचार्य एवं व्याख्यातवान्—“विश्वानरस्य आदित्यस्य अनानतस्य शवसो महतो बलस्य, एवैश्च कामैः अयनैः अवनैर्वा, चर्षणीनां मनुष्याणाम्, ऊत्या च पथा रथानाम् इन्द्रमस्मिन् यज्ञे ह्वयामि” इति (निरु० १२।२०)। अत्र श्लेषालङ्कारः ॥५॥
भावार्थः - जगदीश्वरो जीवात्मभ्यस्तज्जीवनयात्रार्थं कर्मानुसारमुत्कृष्टान् मानवशरीररथान् प्रददाति। तथैव राजा राष्ट्रे प्रजाजनानां सद्यो यात्रार्थं विमानादिरथान् प्रकल्पयेत् ॥५॥
टिप्पणीः -
१. ऋ० ८।६८।४।