Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 365
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
4

स꣢ घा꣣ य꣡स्ते꣢ दि꣣वो꣡ नरो꣢꣯ धि꣣या꣡ मर्त꣢꣯स्य꣣ श꣡म꣢तः । ऊ꣣ती꣡ स बृ꣢꣯ह꣣तो꣢ दि꣣वो꣢ द्वि꣣षो꣢꣫ अꣳहो꣣ न꣡ त꣢रति ॥३६५॥

स्वर सहित पद पाठ

सः꣢ । घ꣣ । यः꣢ । ते꣣ । दिवः꣢ । न꣡रः꣢꣯ । धि꣣या꣢ । म꣡र्त꣢꣯स्य । श꣡म꣢꣯तः । ऊ꣣ती꣢ । सः । बृ꣣हतः꣢ । दि꣣वः꣢ । द्वि꣣षः꣢ । अँ꣡हः꣢꣯ । न । त꣣रति ॥३६५॥


स्वर रहित मन्त्र

स घा यस्ते दिवो नरो धिया मर्तस्य शमतः । ऊती स बृहतो दिवो द्विषो अꣳहो न तरति ॥३६५॥


स्वर रहित पद पाठ

सः । घ । यः । ते । दिवः । नरः । धिया । मर्तस्य । शमतः । ऊती । सः । बृहतः । दिवः । द्विषः । अँहः । न । तरति ॥३६५॥

सामवेद - मन्त्र संख्या : 365
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 2;
Acknowledgment

पदार्थः -
हे (इन्द्र) परमधीमन् जगदीश्वर ! (यः नरः) यो मनुष्यः (मर्त्तस्य) मारयितुः, (शमतः) शमयतः, लौकिकीं शान्तिं मोक्षरूपां परां शान्तिं च प्रयच्छतः, (दिवः) कमनीयस्य। दीव्यतिरत्र कान्तिकर्मा। (ते) तव (धिया) ध्यानेन सचते, (सः) असौ, (सः घ) निश्चयेन स एव, (बृहतः) महतः (दिवः) ज्योतिर्मयस्य तव। दीव्यतिरत्र द्युतिकर्मा। (ऊती) रक्षया (अंहः न) पापाचारम् इव (द्विषः) द्वेषवृत्तीः अपि (तरति) अतिक्रामति। यथा अंहः तरति तथा द्विषोऽपि तरति। अंहश्च द्विषश्च तरतीत्यर्थः। एतेनैव विधिना नकारः समुच्चयार्थोऽपि भवति ॥६॥२

भावार्थः - यथा मनुष्यो मरणात् मर्त्तः, तथा जगदीश्वरो मारणान्मर्त्त उच्यते। उक्तं च ‘यो मा॒रय॑ति प्रा॒णय॑ति’ (अथ० १३।३।३) इति। स हि मारणान्मर्त्तो मृत्युः शर्वो यमो वा, जननात् प्राणप्रदानाच्च भवः जनिता प्राणश्च उच्यते। तस्य ध्यानेन बलं प्राप्य जनः सर्वान् विघ्नान् समस्तान् शत्रूंश्च समुत्तर्तुं प्रभवति ॥६॥

इस भाष्य को एडिट करें
Top