Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 366
ऋषिः - अत्रिर्भौमः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
5

वि꣣भो꣡ष्ट꣢ इन्द्र꣣ रा꣡ध꣢सो वि꣣भ्वी꣢ रा꣣तिः꣡ श꣢तक्रतो । अ꣡था꣢ नो विश्वचर्षणे द्यु꣣म्न꣡ꣳ सु꣢दत्र मꣳहय ॥३६६॥

स्वर सहित पद पाठ

वि꣣भोः꣢ । वि꣣ । भोः꣢ । ते꣣ । इन्द्र । रा꣡ध꣢꣯सः । वि꣣भ्वी꣢ । वि । भ्वी꣢ । रा꣣तिः꣢ । श꣣तक्रतो । शत । क्रतो । अ꣡थ꣢꣯ । नः꣣ । विश्वचर्षणे । विश्व । चर्षणे । द्युम्न꣢म् । सु꣣दत्र । सु । दत्र । मँहय ॥३६६॥


स्वर रहित मन्त्र

विभोष्ट इन्द्र राधसो विभ्वी रातिः शतक्रतो । अथा नो विश्वचर्षणे द्युम्नꣳ सुदत्र मꣳहय ॥३६६॥


स्वर रहित पद पाठ

विभोः । वि । भोः । ते । इन्द्र । राधसः । विभ्वी । वि । भ्वी । रातिः । शतक्रतो । शत । क्रतो । अथ । नः । विश्वचर्षणे । विश्व । चर्षणे । द्युम्नम् । सुदत्र । सु । दत्र । मँहय ॥३६६॥

सामवेद - मन्त्र संख्या : 366
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 2;
Acknowledgment

पदार्थः -
हे (शतक्रतो) बहुप्रज्ञ, बहुकर्मन् (इन्द्र) विश्वम्भर परमात्मन् ! (विभोः) व्यापकस्य (ते) तव (राधसः) शमदमन्यायसत्याहिंसादेः आध्यात्मिकस्य, भौतिकस्य रजतस्वर्णहीरकमुक्तामणिमाणिक्यविद्यारोग्ययशश्चक्रवर्ति-राज्यादेश्च (रातिः) दत्तिः (विभ्वी) व्यापिनी वर्तते। (अथ) अतः कारणात् हे (विश्वचर्षणे) विश्वद्रष्टः ! विश्वचर्षणिरिति पश्यतिकर्मसु पठितम्। निघं० ३।११। हे (सुदत्र) शोभनदान जगदीश्वर ! त्वम् (नः) अस्मभ्यम् (द्युम्नम्) आध्यात्मिकं तेजो भौतिकं धनं, तज्जन्यं यशश्च। द्युम्नमिति धननाम। निघं० २।१०। द्युम्नं द्योततेः यशो वाऽन्नं वा। निरु० ५।५। (मंहय) प्रयच्छ। मंहते दानकर्मा। निघं० ३।२०। तत्रैव मंहयतिरपि पठितव्यः ॥ मन्त्रोऽयं नृपतिपक्षे आचार्यपक्षे चापि योजनीयः। विभुधनस्य नृपस्य धनदानं विभु, विभुविद्यस्याचार्यस्य च विद्यादानं विभु भवति। नृपश्चारचक्षुभिर्विश्वद्रष्टा, आचार्यश्च ज्ञानबलेन विश्वद्रष्टा ॥७॥२ अत्र ‘विभोः राधसः रातिरपि विभ्वी’ इति समालङ्कारो ध्वन्यते, ‘समं स्यादानुरूप्येण श्लाघा योग्यस्य वस्तुनः’ (सा० द० १०।७१) इति तल्लक्षणात् ॥७॥

भावार्थः - यो जगदीश्वरो नृपतिराचार्यश्च धनविद्यातेजःकीर्त्यादेः प्रचुरां वृष्टिं करोति सोऽस्मभ्यमपि तद्धारां प्रवाहयेत् ॥७॥

इस भाष्य को एडिट करें
Top