Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 369
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
7

ऋ꣢च꣣ꣳ सा꣡म꣢ यजामहे꣣ या꣢भ्यां꣣ क꣡र्मा꣢णि कृ꣣ण्व꣡ते꣢ । वि꣡ ते सद꣢꣯सि राजतो य꣣ज्ञं꣢ दे꣣वे꣡षु꣢ वक्षतः ॥३६९॥

स्वर सहित पद पाठ

ऋ꣡च꣢꣯म् । सा꣡म꣢꣯ । य꣣जामहे । या꣡भ्या꣢꣯म् । क꣡र्मा꣢꣯णि । कृ꣣ण्व꣡ते꣢ । वि । ते꣡इति꣢ । स꣡द꣢꣯सि । रा꣣जतः । यज्ञ꣢म् । दे꣣वे꣡षु꣢ । व꣣क्षतः ॥३६९॥


स्वर रहित मन्त्र

ऋचꣳ साम यजामहे याभ्यां कर्माणि कृण्वते । वि ते सदसि राजतो यज्ञं देवेषु वक्षतः ॥३६९॥


स्वर रहित पद पाठ

ऋचम् । साम । यजामहे । याभ्याम् । कर्माणि । कृण्वते । वि । तेइति । सदसि । राजतः । यज्ञम् । देवेषु । वक्षतः ॥३६९॥

सामवेद - मन्त्र संख्या : 369
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 2;
Acknowledgment

पदार्थः -
वयम् (ऋचम्) ऋग्वेदम् (साम) सामवेदं च (यजामहे) अर्थज्ञानपूर्वकं गीतिज्ञानपूर्वकं च अधीमहे अध्यापयामश्च। यज देवपूजासंगतिकरणदानेषु। संगतिकरणं चात्र अध्ययनं, दानं च अध्यापनम्। (याभ्याम्) ऋक्सामभ्याम्, ययोः अध्ययनेनाध्यापनेन च इत्यर्थः (कर्माणि) तदुक्तानि कर्त्तव्यकर्माणि (कृण्वते) कुर्वन्ति तज्ज्ञाः। (ते) ऋक्साम्नी (सदसि) निवासगृहे सभागृहे च (राजतः) शोभेते, गृहेषु सभासु च तेषां पाठो गानं च क्रियते इत्यर्थः, (देवेषु) विद्वत्सु च (यज्ञम्) यज्ञभावनाम् (वक्षतः) वहतः प्रापयतः। वह प्रापणे धातोर्लेटि रूपम् ॥१०॥

भावार्थः - अस्माभिः ऋग्वेदं सामवेदं सामयोनिरूपामृचम् ऋच्यधूढं सामगानं च सर्वमेतद् योग्येभ्यो गुरुभ्योऽर्थज्ञानपूर्वकमधीत्य गृहे सभायां विभिन्नसमारोहेषु च सस्वरं वेदपाठः सामगानं च विधातव्ये ॥१०॥ अत्रेन्द्रनाम्ना कश्यपनाम्ना चेन्द्रस्य स्मरणात्, तदर्चनार्थं प्रेरणात्, तद्ध्यानफलप्रतिपादनात्, तद्दानयाचनात्, दिव्याया उषसः प्रभाववर्णनाद्, ऋक्सामाध्ययनसंकल्पवर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति वेद्यम् ॥ इति चतुर्थे प्रपाठके द्वितीयार्धे तृतीया दशतिः ॥ इति चतुर्थेऽध्याये द्वितीयः खण्डः ॥

इस भाष्य को एडिट करें
Top