Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 378
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - द्यावापृथिवी छन्दः - जगती स्वरः - निषादः काण्ड नाम - ऐन्द्रं काण्डम्
5

घृ꣣त꣡व꣢ती꣣ भु꣡व꣢नानामभि꣣श्रि꣢यो꣣र्वी꣢ पृ꣣थ्वी꣡ म꣢धु꣣दु꣡घे꣢ सु꣣पे꣡श꣢सा । द्या꣡वा꣢पृथि꣣वी꣡ वरु꣢꣯णस्य꣣ ध꣡र्म꣢णा꣣ वि꣡ष्क꣢भिते अ꣣ज꣢रे꣣ भू꣡रि꣢रेतसा ॥३७८॥

स्वर सहित पद पाठ

घृ꣣त꣡व꣢ती꣣इ꣡ति꣢ । भु꣡व꣢꣯नानाम् । अ꣣भिश्रि꣡या꣢ । अ꣣भि । श्रि꣡या꣢꣯ । उ꣣र्वी꣡इति꣢ । पृ꣣थ्वी꣡इति꣢ । म꣣धुदु꣡घे꣢ । म꣣धु । दु꣢घे꣣इ꣡ति꣢ । सु꣣पे꣡श꣢सा । सु꣣ । पे꣡श꣢꣯सा । द्या꣡वा꣢꣯ । पृ꣣थिवी꣡इति꣢ । व꣡रु꣢꣯णस्य । ध꣡र्म꣢꣯णा । वि꣡ष्क꣢꣯भिते । वि । स्क꣣भितेइ꣡ति꣢ । अ꣣ज꣡रे꣢ । अ꣣ । ज꣢रे꣢꣯इ꣡ति꣢ । भू꣡रि꣢꣯रेतसा । भू꣡रि꣢꣯ । रेत꣣सा ॥३७८॥


स्वर रहित मन्त्र

घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥३७८॥


स्वर रहित पद पाठ

घृतवतीइति । भुवनानाम् । अभिश्रिया । अभि । श्रिया । उर्वीइति । पृथ्वीइति । मधुदुघे । मधु । दुघेइति । सुपेशसा । सु । पेशसा । द्यावा । पृथिवीइति । वरुणस्य । धर्मणा । विष्कभिते । वि । स्कभितेइति । अजरे । अ । जरेइति । भूरिरेतसा । भूरि । रेतसा ॥३७८॥

सामवेद - मन्त्र संख्या : 378
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 3;
Acknowledgment

पदार्थः -
(घृतवती) घृतवत्यौ, दीप्तिमत्यौ उदकवत्यौ वा। घृ क्षरणदीप्त्योः। घृतमित्युदकनाम जिघर्तेः सिञ्चतिकर्मणः। निरु० ७।२४। (भुवनानाम्) सर्वेषां लोकानाम् (अभिश्रिया२) अभिश्रियौ अभितः सर्वतः श्रीः शोभा लक्ष्मीः याभ्यां ते, (ऊर्वी३) बहुपदार्थयुक्ते, (पृथ्वी) विस्तीर्णे, (मधुदुघे) मधुरादिरसैः प्रपूरिके, (सुपेशसा) शोभनं पेशः सुवर्णं रूपं वा ययोस्ते। पेशस् इति हिरण्यनाम रूपनाम च। निघं० १।२, ३।७। (अजरे) अजीर्णे, (भूरिरेतसा) भूरि बहु रेतो वीर्यम् उदकं वा याभ्यां ते। रेतः इत्युदकनाम। निघं० १।१२। (द्यावापृथिवी) द्युलोकपृथिवीलोकौ (वरुणस्य४) सर्वेभ्यो वरस्य श्रेष्ठस्य जगदीश्वरस्य, सूर्यस्य, वायोर्वा (धर्मणा) आकर्षणधारणादिगुणेन (विष्कभिते) विशेषेण धृते स्तः। घृतवती, उर्वी, पृथ्वी, द्यावापृथिवी इति सर्वत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इति पूर्वसवर्णदीर्घः। अभिश्रिया सुपेशसा, भूरिरेतसा इति सर्वत्र प्रथमाद्विवचनस्य आकारादेशः। वरुणशब्दो निरुक्ते मध्यमे उत्तमे च स्थाने व्याख्यातः, तेन वायुः सूर्यश्च गृह्यते। ‘वरुणो वृणोतीति सतः’ निरु० १०।४ ॥९॥५

भावार्थः - मनुष्यैर्भूगोलविद्यां खगोलविद्यां च सम्यग् विज्ञाय सूर्यचन्द्रनक्षत्रादिभ्यः पृथिव्याश्च यथायोग्यं लाभाः प्राप्तव्याः। वरुणः परमेश्वर एव सूर्यपवनादिद्वारा तान् सर्वान् लोकानाकर्षणधारणादिभिः स्थिरीकरोतीति सोऽपि कदाचिन्न विस्मर्तव्यः ॥९॥ ६

इस भाष्य को एडिट करें
Top