Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 40
ऋषिः - प्रस्कण्वः काण्वः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
9
अ꣢ग्ने꣣ वि꣡व꣢स्वदु꣣ष꣡स꣢श्चि꣣त्र꣡ꣳ राधो꣢꣯ अमर्त्य । आ꣢ दा꣣शु꣡षे꣢ जातवेदो वहा꣣ त्व꣢म꣣द्या꣢ दे꣣वा꣡ꣳ उ꣢ष꣣र्बु꣡धः꣢ ॥४०॥
स्वर सहित पद पाठअ꣡ग्ने꣢ । वि꣡व꣢꣯स्वत् । वि । व꣣स्वत् । उष꣡सः꣢ । चि꣣त्र꣢म् । रा꣡धः꣢꣯ । अ꣣मर्त्य । अ । मर्त्य । आ꣢ । दा꣣शु꣡षे꣢ । जा꣣तवेदः । जात । वेदः । वह । त्व꣢म् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । दे꣣वा꣢न् । उ꣣षर्बु꣡धः꣢ । उ꣣षः । बु꣡धः꣢꣯ ॥४०॥
स्वर रहित मन्त्र
अग्ने विवस्वदुषसश्चित्रꣳ राधो अमर्त्य । आ दाशुषे जातवेदो वहा त्वमद्या देवाꣳ उषर्बुधः ॥४०॥
स्वर रहित पद पाठ
अग्ने । विवस्वत् । वि । वस्वत् । उषसः । चित्रम् । राधः । अमर्त्य । अ । मर्त्य । आ । दाशुषे । जातवेदः । जात । वेदः । वह । त्वम् । अद्य । अ । द्य । देवान् । उषर्बुधः । उषः । बुधः ॥४०॥
सामवेद - मन्त्र संख्या : 40
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
विषयः - परमेश्वरोऽस्मभ्यं किं दद्यादित्याह।
पदार्थः -
हे (अमर्त्य) स्वरूपेण मरणधर्मरहित, (जातवेदः) सर्वज्ञ, सर्वव्यापक, ज्ञाननिधे (अग्ने) प्रकाशस्वरूप परमात्मन् ! (त्वम् अद्य) अस्मिन् दिने। संहितायां निपातस्य च। अ० ६।३।१३६ इति दीर्घः। (दाशुषे) धनधान्यविद्यादिदानकर्त्रे मह्यम्। दाशृ दाने, दाश्वान्साह्वान् मीढ्वांश्च।’ अ० ६।१।१२ इति क्वसुप्रत्ययान्तो निपातः। (उषसः) प्रभातदीप्तेः (चित्रम्) अद्भुतम् (विवस्वत्) अज्ञानदारिद्र्यादितमो- विवासनशीलम् (राधः२) ऋतरूपं ज्योतीरूपं वा धनम्। राध इति धननाम। निघं० २।१०। उषसो धनं च ऋतं ज्योतिर्वा, यथोक्तम् ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना। ऋ० १।१२३।१३, ऋ॒तस्य॒ पन्था॒मन्वे॑ति सा॒धु। ऋ० १।१२४।३, ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृण्व॒ती। ऋ० १।९२।४, ज्योति॑ष्कृणोति सू॒नरी॑। ऋ० ७।८१।१’ इति। किञ्च, (उषर्बुधः) ये उषसि स्वयं बुध्यन्ते, सुप्तान् बोधयन्ति च तान् (देवान्) उत्तमान् विदुषो दिव्य-गुणान् वा। संहितायां देवाँ उषर्बुधः इत्यत्र दीर्घादटि समानपादे।’ अ० ८।३।९ इति नकारस्य रुत्वम्, आतोऽटि नित्यम्।’ अ० ८।३।३ इत्यनुनासिकश्च। (आ वह) प्रापय। संहितायां (द्व्यचोऽतस्तिङः। अ० ६।३।१३५ इति (दीर्घः) ॥६॥३
भावार्थः - सर्वे जना उषसि प्रबुध्यमानान् दिव्यगुणान् हृदि धारयन्तः, उषर्वद् रश्मिवन्तः प्राणवन्तो यज्ञवन्तः प्रबोधवन्तः सत्यवन्तश्च भूत्वा विदुषां सङ्गेन सदा जागरूकाः सदाचारिणो धर्मात्मानश्च भवेयुः ॥६॥
टिप्पणीः -
१. ऋ० १।४४।१, साम १७८०। २. उषसः उषःसम्बन्धि चित्रं चायनीयं दर्शनीयं राधः तेजः, राधयति प्रकाशयतीति—इति भ०। ३. ऋग्भाष्ये दयानन्दर्षिरस्य मन्त्रस्य भावार्थमेवमाह—“मनुष्यैरीश्वराज्ञापालनाय स्वपुरुषार्थेन परमेश्वरम् अनलसान् उत्तमान् विदुषश्चाश्रित्य चक्रवर्तिराज्यविद्याश्रीः प्राप्तव्या” इत्यादि।