Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 404
ऋषिः - सौभरि: काण्व: देवता - मरुतः छन्दः - ककुप् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
4

गा꣡व꣢श्चिद्घा समन्यवः सजा꣣꣬त्ये꣢꣯न म꣣रु꣢तः꣣ स꣡ब꣢न्धवः । रि꣣ह꣡ते꣢ क꣣कु꣡भो꣢ मि꣣थः꣢ ॥४०४॥

स्वर सहित पद पाठ

गा꣡वः꣢꣯ । चि꣣त् । घ । समन्यवः । स । मन्यवः । सजात्ये꣢꣯न । स꣣ । जात्ये꣢꣯न । म꣣रु꣡तः꣢ । स꣡ब꣢꣯न्धवः । स । ब꣣न्धवः । रिह꣡ते꣢ । क꣣कु꣡भः꣢ । मि꣣थः꣢ ॥४०४॥


स्वर रहित मन्त्र

गावश्चिद्घा समन्यवः सजात्येन मरुतः सबन्धवः । रिहते ककुभो मिथः ॥४०४॥


स्वर रहित पद पाठ

गावः । चित् । घ । समन्यवः । स । मन्यवः । सजात्येन । स । जात्येन । मरुतः । सबन्धवः । स । बन्धवः । रिहते । ककुभः । मिथः ॥४०४॥

सामवेद - मन्त्र संख्या : 404
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment

पदार्थः -
हे (समन्यवः) सतेजस्काः (गावः) स्तोतारो ब्राह्मणाः ! गौः इति स्तोतृनाम। निघं० ३।१६। (सजात्येन) सजातित्वेन (मरुतः२) क्षत्रियाः योद्धारो जनाः (चिद् घ) निश्चयेन (सबन्धवः) युष्माकं समानबन्धुत्वयुक्ताः सन्ति, ये क्षत्रियाः (मिथः) परस्परं मिलित्वा, युद्धे (ककुभः) दिशः (रिहते) आस्वादयन्ति, व्याप्नुवन्तीत्यर्थः। लिह आस्वादने, अदादिः, रलयोरभेदः।३ सर्वा दिशोऽभिव्याप्य शत्रुणा सह युद्ध्वा राष्ट्रं रक्षन्तीति भावः। यद्वा, ये क्षत्रियाः (मिथः) युष्माभिः ब्राह्मणैः सह मिलित्वा (ककुभः) ककुप्छन्दोबद्धाः इमाः प्रस्तुतायां दशतौ पठिताः ऋचः (रिहते) पाठेन अर्थानुसन्धानेन च आस्वादयन्ति ॥ प्रस्तुतायां दशतौ ककुब् उष्णिक् छन्दोऽस्ति, यत्र प्रथमतृतीयपादौ अष्टाक्षरौ मध्यस्थो द्वितीयः पादश्च द्वादशाक्षरो भवति ॥६॥४

भावार्थः - स्तोतारो ब्राह्मणा रक्षकाः क्षत्रियाश्च उभयेऽपि राष्ट्रस्यानिवार्याण्यङ्गानि सन्ति। यथा ब्राह्मणा विद्यादानेन क्षत्रियानुपकुर्वन्ति तथा युद्धे समागते क्षत्रिया दिशोऽभिव्याप्य शत्रून् पराजित्य ब्राह्मणानुपकुर्वन्ति। तस्माद् ब्राह्मणैः क्षत्रियैश्च राष्ट्रे भ्रातृत्वेन वर्तितव्यम् ॥६॥

इस भाष्य को एडिट करें
Top