Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 407
ऋषिः - सौभरि: काण्व:
देवता - इन्द्रः
छन्दः - ककुप्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
3
सी꣡द꣢न्तस्ते꣣ व꣢यो꣣ य꣢था꣣ गो꣡श्री꣢ते꣣ म꣡धौ꣢ मदि꣣रे꣢ वि꣣व꣡क्ष꣢णे । अ꣣भि꣡ त्वामि꣢꣯न्द्र नोनुमः ॥४०७॥
स्वर सहित पद पाठसी꣡द꣢꣯न्तः । ते꣣ । व꣡यः꣢꣯ । य꣡था꣢꣯ । गो꣡श्री꣢꣯ते । गो । श्री꣣ते । म꣡धौ꣢꣯ । म꣣दिरे꣢ । वि꣣व꣡क्ष꣢णे । अ꣣भि꣢ । त्वाम् । इ꣣न्द्र । नोनुमः ॥४०७॥
स्वर रहित मन्त्र
सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे । अभि त्वामिन्द्र नोनुमः ॥४०७॥
स्वर रहित पद पाठ
सीदन्तः । ते । वयः । यथा । गोश्रीते । गो । श्रीते । मधौ । मदिरे । विवक्षणे । अभि । त्वाम् । इन्द्र । नोनुमः ॥४०७॥
सामवेद - मन्त्र संख्या : 407
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
विषयः - अथ पक्षिदृष्टान्तेन परमेशस्तुतिविषयमाह।
पदार्थः -
हे (इन्द्र) मधुवर्षक परमेश ! (वयः२ यथा) पक्षिण इव। वयः इति ‘वि’ शब्दस्य प्रथमाबहुवचनम्। यथा जलचराः पक्षिणो जलाशये समवेता भवन्ति तद्वदित्यर्थः, वयम् (ते) तव (गोश्रीते३) गोपयसा इव पवित्रेण अन्तःप्रकाशेन मिश्रिते (मदिरे) हर्षजनके (विवक्षणे४) मुक्तिप्रापके। वि पूर्वाद् वह धातोरिदं रूपम्। (मधौ) आनन्दरूपे सोमरसे (सीदन्तः) समवेत्य उपविशन्तः (त्वाम् अभि) त्वामभिलक्ष्य (नोनुमः) अतिशयेन पुनः पुनः स्तुमः। णु स्तुतौ धातोर्यङ्लुगन्तोऽयं प्रयोगः ॥९॥ अत्रोपमालङ्कारः ॥९॥
भावार्थः - जलपक्षिणो यथा जले संभूय तिष्ठन्ति क्रेंकारं च कुर्वन्ति तथैव प्रेमरसघनस्य परमात्मन आनन्दरसे समवेतास्तदुपासकास्तमभिलक्ष्य भूयो भूयः स्तुतिगीतानि गायन्ति। यथा सोमे गोः पयः संमिश्र्यते, तथैवात्र परमात्मन आनन्दरसे दिव्यप्रकाशस्य संमिश्रणं वर्वर्तीति बोद्धव्यम् ॥९॥
टिप्पणीः -
१. ऋ० ८।२१।५, ऋषिः सोभरिः काण्वः। २. वयः पक्षिणः। ते यथा सन्ध्यायामेकत्र वृक्षे समन्ताः व्यवतिष्ठन्ते तद्वदेकत्र वेद्याख्ये प्रदेशे व्यवतिष्ठन्तः इत्यर्थः—इति वि०। पक्षिणो यथा वृक्षे सीदन्ति तद्वत् सोमे सीदन्तः वयम्—इति भ०। पक्षिणो यथा एकत्र सङ्घीभूय तिष्ठन्ति तद्वत् सीदन्तो वयम्—इति सा०। ३. पयोभिर्मिश्रिते—इति वि०। गोविकारेण आशिरा पक्वे—इति भ०। गोविकारो दधि पयश्च गोशब्देनोच्यते। तेन दध्ना पयसा च मिश्रिते—इति सा०। ४. वक्तुमिच्छते—इति वि०। विवेकारि—इति भ०।