Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 441
ऋषिः - त्रसदस्युः
देवता - इन्द्रः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
4
शं꣢ प꣣दं꣢ म꣣घ꣡ꣳ र꣢यी꣣षि꣢णे꣣ न꣡ काम꣢꣯मव्र꣢तो꣡ हि꣢नोति꣣ न꣡ स्पृ꣢शद्र꣣यि꣢म् ॥४४१
स्वर सहित पद पाठश꣢म् । प꣣द꣢म् । म꣣घ꣢म् । र꣣यीषि꣡णे꣢ । न । का꣡म꣢꣯म् । अ꣣व्रतः꣢ । अ꣣ । व्रतः꣢ । हि꣣नोति । न꣢ । स्पृ꣣शत् । रयि꣢म् ॥४४१॥
स्वर रहित मन्त्र
शं पदं मघꣳ रयीषिणे न काममव्रतो हिनोति न स्पृशद्रयिम् ॥४४१
स्वर रहित पद पाठ
शम् । पदम् । मघम् । रयीषिणे । न । कामम् । अव्रतः । अ । व्रतः । हिनोति । न । स्पृशत् । रयिम् ॥४४१॥
सामवेद - मन्त्र संख्या : 441
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment
विषयः - अथ धनादिकं कः प्राप्नोतीत्याह।
पदार्थः -
हे इन्द्र मदीय अन्तरात्मन् ! (शम्) सुखम्, शान्तिः, (पदम्) उच्चपदम्, (मघम्) आध्यात्मिकं भौतिकं च धनम् (रयीषिणे) धनेच्छुकाय, धनादिप्राप्तिमहत्त्वाकाङ्क्षिणे एव भवति। (अव्रतः) व्रतरहितः अकर्मा च जनः (कामम्) उच्चाकाङ्क्षाम् (न हिनोति) न प्राप्नोति। हि गतौ वृद्धौ च। (न) नैव च (रयिम्) ऐश्वर्यम् (स्पृशत्) स्पृशति, प्राप्नोति। स्पृशतेर्लेटि रूपम् ॥५॥
भावार्थः - धनं, सुखं, शान्तिं, नृपत्वसचिवत्वन्यायाधीशत्वाद्युच्चं पदं, मोक्षपदं च ये प्राप्तुमिच्छन्ति तैस्तदर्थं तीव्रां महत्त्वाकाङ्क्षां मनसि निधाय तत्प्राप्त्यर्थं महान् प्रयत्नोऽनुष्ठेयः ॥५॥
इस भाष्य को एडिट करें