Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 448
ऋषिः - बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च क्रमेण गोपायना लौपायना वा देवता - अग्निः छन्दः - द्विपदा विराट् पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
4

अ꣢ग्ने꣣ त्वं꣢ नो꣣ अ꣡न्त꣢म उ꣣त꣢ त्रा꣣ता꣢ शि꣣वो꣡ भु꣢वो वरू꣣꣬थ्यः꣢꣯ ॥४४८॥

स्वर सहित पद पाठ

अ꣡ग्ने꣢꣯ । त्वम् । नः꣣ । अ꣡न्त꣢꣯मः । उ꣣त꣢ । त्रा꣣ता꣢ । शि꣣वः꣢ । भु꣣वः । वरूथ्यः꣢꣯ ॥४४८॥


स्वर रहित मन्त्र

अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः ॥४४८॥


स्वर रहित पद पाठ

अग्ने । त्वम् । नः । अन्तमः । उत । त्राता । शिवः । भुवः । वरूथ्यः ॥४४८॥

सामवेद - मन्त्र संख्या : 448
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment

पदार्थः -
हे (अग्ने) अग्रणीः परमात्मन् राजन् वा ! (त्वम् नः) अस्मभ्यम् (अन्तमः) अन्तिकतमः, (उत) अपिच (त्राता) विपद्भ्यो रक्षकः, (शिवः) कल्याणकरः, (वरूथ्यः२) वरणीयः गृहेभ्यो हितश्च (भुवः) भव। वृञ् वरणे धातोः ‘जॄवृञ्भ्यामूथन्’ उ० २।६ इति ऊथन् प्रत्ययः। वरूथः वरणीयः, स एव वरूथ्यः, स्वार्थे यत्। यद्वा, वरूथमिति गृहनाम। निघं० ३।४। वरूथेभ्यो गृहेभ्यो हितः वरूथ्यः। हितार्थे यत् ॥२॥ अत्र अर्थश्लेषालङ्कारः ॥२॥

भावार्थः - यथा परमेश्वरोऽस्माकं निकटतमो विघ्नविद्वेषपापादिभ्यस्त्राता, मङ्गलकरः शरीरगृहाणां हितावहश्च जायते, तथा निर्वाचनपद्धत्या वृतो राजा प्रजानां समीपतमो भूत्वा विपत्त्राता, सुखशान्तिकर आवासगृहाणां निर्माणाय धनादिप्रदाता च भवेत् ॥२॥

इस भाष्य को एडिट करें
Top