Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 447
ऋषिः - पृषध्रः काण्वः देवता - अग्निः छन्दः - द्विपदा गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
4

अ꣡चे꣢त्य꣣ग्नि꣡श्चिकि꣢꣯तिर्हव्य꣣वाड्न꣢꣫ सु꣣म꣡द्र꣢थः ॥४४७॥

स्वर सहित पद पाठ

अ꣡चे꣢꣯ति । अ꣣ग्निः꣢ । चि꣡कि꣢꣯तिः । ह꣣व्यवा꣡ट् । ह꣣व्य । वा꣢ट् । न । सु꣣म꣡द्र꣢थः । सु꣣म꣢त् । र꣣थः ॥४४७॥


स्वर रहित मन्त्र

अचेत्यग्निश्चिकितिर्हव्यवाड्न सुमद्रथः ॥४४७॥


स्वर रहित पद पाठ

अचेति । अग्निः । चिकितिः । हव्यवाट् । हव्य । वाट् । न । सुमद्रथः । सुमत् । रथः ॥४४७॥

सामवेद - मन्त्र संख्या : 447
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment

पदार्थः -
(अग्निः) अग्रणीः परमेश्वरः (अचेति) अस्माभिः अज्ञायि, अनुभूतः इत्यर्थः, यः (चिकितिः२) सर्वज्ञः। अत्र किती संज्ञाने धातोः ‘किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्’ अ० ३।२।१७१ वा० इति किन् प्रत्ययः लिड्वच्च। नित्त्वादाद्युदात्तः। किञ्च, यः (सुमद्रथः३) सुमन्तः शोभनाः रथाः विमानादियानानि यस्मात् सः (हव्यवाड् न) विद्युदग्निः इव (सुमद्रथः) सुमन्तः श्रेष्ठाः रथाः शरीररथाः, रंहणशीलाः सूर्यचन्द्रभूगोलादयो वा यस्मात् तादृशः वर्तते ॥१॥ अत्र श्लिष्टोपमालङ्कारः ॥१॥

भावार्थः - यथा परमात्मा सर्वैः साक्षात्करणीयस्तथैव विद्युदग्निरपि ज्ञेयः, ज्ञात्वा च तं शिल्पोन्नत्या समाचारप्रेषणविमानादियानचालन- प्रभृतीनि कार्याणि करणीयानि ॥१॥

इस भाष्य को एडिट करें
Top