Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 452
ऋषिः - भुवन आप्त्यः साधनो वा भौवनः देवता - विश्वेदेवाः छन्दः - द्विपदा पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
4

इ꣣मा꣢꣫ नु कं꣣ भु꣡व꣢ना सीषधे꣣मे꣡न्द्र꣢श्च꣣ वि꣡श्वे꣢ च दे꣣वाः꣢ ॥४५२॥

स्वर सहित पद पाठ

इ꣣मा꣢ । नु । क꣣म् । भु꣡व꣢꣯ना । सी꣣षधेम । इ꣡न्द्रः꣢꣯ । च꣣ । वि꣡श्वे꣢꣯ । च꣣ । देवाः꣢ ॥४५२॥


स्वर रहित मन्त्र

इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥४५२॥


स्वर रहित पद पाठ

इमा । नु । कम् । भुवना । सीषधेम । इन्द्रः । च । विश्वे । च । देवाः ॥४५२॥

सामवेद - मन्त्र संख्या : 452
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment

पदार्थः -
प्रथमः—अध्यात्मपरः। वयम् (इन्द्रः च) द्रष्टा अस्माकं जीवात्मा च (विश्वे देवाः च) सर्वाणि ज्ञानप्रकाशकानि मनोबुद्धिज्ञानेन्द्रियाणि च (इमा भुवना) इमानि भुवनानि अन्नमयप्राणमयादिकोशरूपाणि (कम्) सुखपूर्वकम् (सीषधेम) प्रसाधयेम। सीषधाति प्रसादयतु इति यास्कः। निरु० ५।१२। साध्नोतेर्णिजन्ताल्लिङर्थे लुङि छान्दसः अडभावः ॥ अथ द्वितीयः—राष्ट्रपरः। वयं प्रजाजनाः, (इन्द्रः च) वीरो राजनीतिविद् राजा च, (विश्वे देवाः च) सर्वे विद्वांसः राजसभासदश्च, सर्वे संभूय (इमा भुवना) राष्ट्रस्य इमानि सर्वाणि नगराणि (कम्) सुखपूर्वकम् (सीषधेम) प्रसाधयेम, समर्धयेम वा ॥६॥ अत्र श्लेषालङ्कारः ॥६॥

भावार्थः - जीवात्ममनोबुद्ध्यादीनां साहाय्येन शारीरं, नृपत्यमात्यसभासदादीनां साहाय्येन राष्ट्रियं चोत्कर्षं संसाध्य सर्वे सफलजन्मानो जायन्ताम् ॥६॥

इस भाष्य को एडिट करें
Top