Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 471
ऋषिः - त्रित आप्त्यः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
4

ति꣣स्रो꣢꣫ वाच꣣ उ꣡दी꣢रते꣣ गा꣡वो꣢ मिमन्ति धे꣣न꣡वः꣢ । ह꣡रि꣢रेति꣣ क꣡नि꣢क्रदत् ॥४७१॥

स्वर सहित पद पाठ

ति꣣स्रः꣢ । वा꣡चः꣢꣯ । उत् । ई꣣रते । गा꣡वः꣢꣯ । मि꣣मन्ति । धेन꣡वः꣢ । ह꣡रिः꣢꣯ । ए꣣ति । क꣡नि꣢꣯क्रदत् ॥४७१॥


स्वर रहित मन्त्र

तिस्रो वाच उदीरते गावो मिमन्ति धेनवः । हरिरेति कनिक्रदत् ॥४७१॥


स्वर रहित पद पाठ

तिस्रः । वाचः । उत् । ईरते । गावः । मिमन्ति । धेनवः । हरिः । एति । कनिक्रदत् ॥४७१॥

सामवेद - मन्त्र संख्या : 471
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment

पदार्थः -
(तिस्रः वाचः) ऋग्यजुःसामलक्षणाः (उदीरते) उद्गच्छन्ति, (धेनवः) नवप्रसूताः प्रस्नुतपयोधराः (गावः) पयस्विन्यः इव (मिमन्ति) तर्णकान् प्रति शब्दायन्ते। माङ् माने शब्दे च। परस्मैपदं छान्दसम्। (हरिः) कल्मषहारी आनन्दमयः सोमरसनिर्झरः। हरिः सोमो हरितवर्णः इति निरुक्तम् ४।१९। (कनिक्रदत्) झर-झर शब्दं कुर्वन् (एति) उपासकानां मानसभुवि निर्झरति। क्रदि आह्वाने रोदने च। ‘दाधर्तिदर्धर्ति० अ० ७।४।६५’ इति क्रन्दर्यङ्लुगन्तस्य शतरि अभ्यासस्य चुत्वाभावो निगागमश्च निपात्यते ॥५॥ अत्र व्यङ्ग्योत्प्रेक्षा स्वभावोक्तिरनुप्रासश्चालङ्कारः ॥५॥

भावार्थः - परमात्माराधने लीना जनाः प्रेम्णा मुहुर्मुहुर्ऋग्यजुःसामलक्षणा वाच उदीरयन्ति। मन्ये वत्सान् प्रति स्नेहाकुला धेनवः शब्दायन्ते। उपासकानां मानसभूमयो रसनिधेः परमात्मनः सकाशात् प्रस्नुतेनानन्दरसनिर्झरेण स्नाता जायन्ते। अहो, कीदृशमानन्दमयं वातावरणं वर्तते ॥५॥

इस भाष्य को एडिट करें
Top