Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 49
ऋषिः - सुदीतिपुरुमीढावाङ्गिरसौ तयोर्वान्यतरः देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
9

अ꣣ग्नि꣡मी꣢डि꣣ष्वा꣡व꣢से꣣ गा꣡था꣢भिः शी꣣र꣡शो꣢चिषम् । अ꣣ग्नि꣢ꣳ रा꣣ये꣡ पु꣢रुमीढ श्रु꣣तं꣢꣫ नरो꣣ऽग्निः꣡ सु꣢दी꣣त꣡ये꣢ छ꣣र्दिः꣢ ॥४९॥

स्वर सहित पद पाठ

अ꣣ग्नि꣢म् । ई꣣डिष्व । अ꣡व꣢꣯से । गा꣡था꣢꣯भिः । शी꣣र꣡शो꣢चिषम् । शी꣣र꣢ । शो꣣चिषम् । अग्नि꣢म् । रा꣣ये꣢ । पु꣣रुमीढ । पुरु । मीढ । श्रुत꣢म् । न꣡रः꣢꣯ । अ꣣ग्निः꣢ । सु꣣दीत꣡ये꣢ । सु꣣ । दीत꣡ये꣢ । छ꣣र्दिः꣢ ॥४९॥


स्वर रहित मन्त्र

अग्निमीडिष्वावसे गाथाभिः शीरशोचिषम् । अग्निꣳ राये पुरुमीढ श्रुतं नरोऽग्निः सुदीतये छर्दिः ॥४९॥


स्वर रहित पद पाठ

अग्निम् । ईडिष्व । अवसे । गाथाभिः । शीरशोचिषम् । शीर । शोचिषम् । अग्निम् । राये । पुरुमीढ । पुरु । मीढ । श्रुतम् । नरः । अग्निः । सुदीतये । सु । दीतये । छर्दिः ॥४९॥

सामवेद - मन्त्र संख्या : 49
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment

पदार्थः -
हे (पुरुमीढ) पुरुभिः बहुभिः गुणैः सिक्त स्तोतः२। पुरु बहुनाम। निघं० ३।१। मिह सेचने क्तः। त्वम् (अवसे) रक्षणाय, प्रगतये, सर्वजनप्रीतये, परमतृप्तिलाभाय वा। रक्षणगतिकान्तिप्रीतितृप्त्या- द्यर्थाद् अव धातोः तुमर्थे असेन् प्रत्ययः। (शीरशोचिषम्३) शीरं सर्वत्र व्याप्तं शोचिः ज्योतिर्यस्य तम्। (शीरम्) अनुशायिनमिति वाऽऽशिनमिति वा। निरु० ४।१४। शीङ् स्वप्ने, स्फायितञ्चिवञ्चि०’ उ० २।१३ इति रक् प्रत्ययः। (अग्निम्) तेजोमयं परमात्मानम् (गाथाभिः) मन्त्रवाग्भिः। गाथा वाङ्नाम। निघं० १।११। (ईडिष्व) स्तुहि, आराध्नुहि (श्रुतम्) तन्महिमवर्णनपरेभ्यो वेदादिशास्त्रेभ्यः कर्णगोचरतां नीतम् (अग्निम्) तं परमात्मानम्, त्वम् (राये) भौतिकाध्यात्मिकसर्वविधधनानां प्राप्तये (ईडिष्व) स्तुहि, आराध्नुहि। हे (नरः) पौरुषसम्पन्नाः जनाः ! (अग्निः) जगन्नायकः परमात्मा (सुदीतये४) शोभना दीप्तिः गतिः क्रिया यस्य तस्मै पुरुषार्थिने जनाय। दीयतिः गतिकर्मा। निघं० २।१४। बहुव्रीहौ नञ्सुभ्याम्।’ अ० ६।३।१७२ इत्युत्तरपदस्यान्तोदात्तत्वम्। (छर्दिः) शरणं भवति। छर्दिः गृहनाम। निघं० ३।४ ॥५॥

भावार्थः - धनाद्यशेषकल्याणप्राप्तये जनैः पुरुषार्थिभिर्भूत्वा सर्वत्र व्याप्तकान्तिः परमगुरुः परमात्मा भजनीयः ॥५॥

इस भाष्य को एडिट करें
Top