Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 499
ऋषिः - उचथ्य आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
4
अ꣡ध्व꣢र्यो꣣ अ꣡द्रि꣢भिः सु꣣त꣡ꣳ सोमं꣢꣯ प꣣वि꣢त्र꣣ आ꣡ न꣢य । पु꣣नाही꣡न्द्रा꣢य꣣ पा꣡त꣢वे ॥४९९॥
स्वर सहित पद पाठअ꣡ध्व꣢꣯र्यो । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । सुत꣢म् । सो꣡म꣢꣯म् । प꣣वि꣡त्रे꣢ । आ । न꣣य । पुनाहि꣢ । इ꣡न्द्रा꣢꣯य । पा꣡त꣢꣯वे ॥४९९॥
स्वर रहित मन्त्र
अध्वर्यो अद्रिभिः सुतꣳ सोमं पवित्र आ नय । पुनाहीन्द्राय पातवे ॥४९९॥
स्वर रहित पद पाठ
अध्वर्यो । अद्रिभिः । अ । द्रिभिः । सुतम् । सोमम् । पवित्रे । आ । नय । पुनाहि । इन्द्राय । पातवे ॥४९९॥
सामवेद - मन्त्र संख्या : 499
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
विषयः - अथाध्वर्युं प्रेरयति।
पदार्थः -
हे (अध्वर्यो) य़ज्ञविधिनिष्पादकोऽध्वर्युरिव ज्ञानयज्ञस्य निष्पादक मानव ! त्वम् (अद्रिभिः) अभिषवणपाषाणैरिव ज्ञानेन्द्रियैः (सुतम्) अभिषुतम् (सोमम्) सोमौषधिरसमिव ज्ञानरसम् (पवित्रे) दशापवित्रे इव मनसि (आनय) आदत्स्व, तं ज्ञानरूपं सोमरसम् (इन्द्राय पातवे) जीवात्मनः पानाय (पुनाहि) पुनीहि, मननद्वारा शोधय। अत्र ‘वा छन्दसि।’ अ० ६।४।८८ इति हेरपित्त्वविकल्पनाद् अपित्त्वाभावे ङिद्वत्त्वस्याप्यभावाद् ईत्वं न भवति ॥३॥२ अत्र श्लेषेणाभिहितो भौतिकसोमपरो द्वितीयोऽर्थ उपमानत्वे पर्यवस्यति ॥३॥
भावार्थः - यथा यज्ञे पेषणसाधनैः पाषाणैरभिषुतः सोमो दशापवित्रद्वारा संशोध्यैव पीयते पाय्यते च तथैव ज्ञानार्जनसाधनैर्ज्ञानेन्द्रियैरर्जितं ज्ञानं मनसा मननद्वारा संशोधनीयम् ॥३॥
टिप्पणीः -
१. ऋ० ९।५१।१ ‘आ सृज’, ‘पुनीहीन्द्राय’ इति पाठः। य० २०।३१ देवता इन्द्रः, ऋषिः प्रजापतिः, ‘पुनीहीन्द्राय’ इति पाठः। २. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सोमवल्ल्याद्योषधिसारविषये व्याख्यातवान्। तथा हि तत्र तत्कृतो भावार्थः—“वैद्यराजैः शुद्धदेशोत्पन्नौषधिसारान् निर्मायैतद्दानेन सर्वेषां रोगनिवृत्तिः सततं कार्या” इति।