Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 500
ऋषिः - अवत्सारः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
5
त꣢र꣣त्स꣢ म꣣न्दी꣡ धा꣢वति꣣ धा꣡रा꣢ सु꣣त꣡स्यान्ध꣢꣯सः । त꣢र꣣त्स꣢ म꣣न्दी꣡ धा꣢वति ॥५००॥
स्वर सहित पद पाठत꣡र꣢꣯त् । सः । म꣣न्दी꣢ । धा꣣वति । धा꣡रा꣢꣯ । सु꣣त꣡स्य꣢ । अ꣡न्ध꣢꣯सः । त꣡र꣢꣯त् । सः । म꣣न्दी꣢ । धा꣣वति ॥५००॥
स्वर रहित मन्त्र
तरत्स मन्दी धावति धारा सुतस्यान्धसः । तरत्स मन्दी धावति ॥५००॥
स्वर रहित पद पाठ
तरत् । सः । मन्दी । धावति । धारा । सुतस्य । अन्धसः । तरत् । सः । मन्दी । धावति ॥५००॥
सामवेद - मन्त्र संख्या : 500
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
विषयः - अथ सोमधाराप्रवाहेण किमाप्यत इत्याह।
पदार्थः -
(सुतस्य) आचार्यसकाशात् परमात्मसकाशाद् वा अभिषुतस्य (अन्धसः) ज्ञानकर्मरसस्य आनन्दरसस्य वा (धारा) धारया। अत्र तृतीयैकवचने ‘सुपां सुलुक्’ इति विभक्तेः पूर्वसवर्णदीर्घः। (मन्दी) तृप्तिमान् (सः) आत्मा (तरत्) तरति दुःखविघ्नविपदादिसागरम्। तरतेर्लेटि रूपम्। (धावति) वेगेन गच्छति च ऐहलौकिकं लक्ष्यं प्रति। (मन्दी) ज्ञानकर्मरसस्य आनन्दरसस्य वा धारया तृप्तः सन् (सः) असौ आत्मा (तरत्) तरति दुःखादिसागरम्, (धावति) वेगेन गच्छति च पारलौकिकं लक्ष्यं मोक्षं प्रति ॥४॥ यास्काचार्यो मन्त्रमिममेवं व्याख्यातवान्—“तरति स पापं सर्वं मन्दी यः स्तौति। धावति गच्छति ऊर्ध्वां गतिम्। धारा सुतस्य अन्धसः, धारयाऽभिषुतस्य सोमस्य मन्त्रपूतस्य वाचा स्तुतस्य” इति (निरु० १३।६)। मन्त्रेऽस्मिन् ‘तरत् स मन्दी धावति’ इत्यस्य पुनरुक्तौ लाटानुप्रासोऽलङ्कारः ॥४॥
भावार्थः - गुरोः सकाशात् प्राप्तेन ज्ञानकाण्डरसेन कर्मकाण्डरसेन च, परमात्मनः सकाशात् प्राप्तेनानन्दरसेन च तृप्तः सन् मनुष्यः सर्वामप्यैहिकीं पारलौकिकीं चोन्नतिं कर्तुं शक्नोति ॥४॥
टिप्पणीः -
१. ऋ० ९।५८।१, साम० १०५७।