Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 540
ऋषिः - मन्युर्वासिष्ठः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - पावमानं काण्डम्
6
इ꣡न्दु꣢र्वा꣣जी꣡ प꣢वते꣣ गो꣡न्यो꣢घा꣣ इ꣢न्द्रे꣣ सो꣢मः꣣ स꣢ह꣣ इ꣢न्व꣣न्म꣡दा꣢य । ह꣢न्ति꣣ र꣢क्षो꣣ बा꣡ध꣢ते꣣ प꣡र्यरा꣢꣯तिं꣣ व꣡रि꣢वस्कृ꣣ण्व꣢न्वृ꣣ज꣡न꣢स्य꣣ रा꣡जा꣢ ॥५४०॥
स्वर सहित पद पाठइ꣡न्दुः꣢꣯ । वा꣣जी꣢ । प꣣वते । गो꣡न्यो꣢꣯घाः । गो । न्यो꣣घाः । इ꣡न्द्रे꣢꣯ । सो꣡मः꣢꣯ । स꣡हः꣢꣯ । इ꣡न्व꣢꣯न् । म꣡दा꣢꣯य । ह꣡न्ति꣢꣯ । र꣡क्षः꣢꣯ । बा꣡ध꣢꣯ते । प꣡रि꣢꣯ । अ꣡रा꣢꣯तिम् । अ । रा꣣तिम् । व꣡रि꣢꣯वः । कृ꣣ण्व꣢न् । वृ꣣ज꣡न꣢स्य । रा꣡जा꣢꣯ ॥५४०॥
स्वर रहित मन्त्र
इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय । हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा ॥५४०॥
स्वर रहित पद पाठ
इन्दुः । वाजी । पवते । गोन्योघाः । गो । न्योघाः । इन्द्रे । सोमः । सहः । इन्वन् । मदाय । हन्ति । रक्षः । बाधते । परि । अरातिम् । अ । रातिम् । वरिवः । कृण्वन् । वृजनस्य । राजा ॥५४०॥
सामवेद - मन्त्र संख्या : 540
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment
विषयः - अथ सोमस्य परमात्मनः कर्माण्याह।
पदार्थः -
(गोन्योघाः२) गवां गोपयोवन्मधुराणाम् आनन्दरसानां न्योघाः समूहा यस्य सः। अत्र समासान्तः असच् प्रत्ययः। (वाजी) वेगवान् (इन्दुः) प्रदीप्तः, रसेन आर्द्रीकर्ता च परमात्मा (पवते) उपासकस्य अन्तःकरणं पवित्रीकरोति। (सोमः) शान्तिदायकः स परमेश्वरः (मदाय) आनन्दाय (इन्द्रे) जीवात्मनि (सहः) बलम् (इन्वन्) प्रेरयन्, भवतीति शेषः। इन्वतिः गतिकर्मा। निघं० २।१४। किञ्च (वृजनस्य३) बलस्य। वृजनमिति बलनाम। निघ० २।९। (राजा) अधिपतिः स परमेश्वरः, स्वोपासकानाम् (वरिवः) गुणगणैश्वर्यं योगसिद्ध्यैश्वर्यं वा। वरिवः इति धननाम। निघं० २।१०। (कृण्वन्) प्रयच्छन् सन् (रक्षः) पापरूपं राक्षसम् (हन्ति) हिनस्ति, (अरातिम्) अदानभावं च (परि बाधते) सर्वथा निरस्यति ॥८॥
भावार्थः - परमेश्वर उपासकानां गोपयोवन्मधुरानानन्दरसान्, आत्मबलं, सद्गुणान्, अणिमादियोगसिद्धीश्च प्रयच्छन् तेषां हृदयाददानवृत्तिं बाधमानस्तेषां पापरूपं शत्रुं संहरंश्च तान् विजयिनः करोति ॥८॥
टिप्पणीः -
१. ऋ० ९।९७।१० ‘पर्यरातीर्वरिवः कृण्वन्’ इति पाठः। २. गोन्योघाः गवां न्योघाः सङ्घाः—इति वि०। गमनशीलः नीचीनोऽवाङ्मुखः ओघः प्रवाहः यस्य स गोन्योघाः—इति भ०। गमनशीलनीचीनाग्ररससङ्घातः—इति सा०। यत्तु ‘गोनीशब्दो गमनशीलार्थेऽपभ्रंश इत्युदाजहार च पस्पशे पतञ्जलिः’ इत्याह सत्यव्रतः सामश्रमी, तत्त्वत्र न समञ्जसम्, पदपाठे ‘गो न्योघाः’ इति पदच्छेदात्, पतञ्जलिना चापि अपभ्रंशशब्दस्यैवोल्लेखाद् न तु वैदिकशब्दस्येत्यवधेयम्। ३. वृजनस्य बलस्य यज्ञस्य वा—इति भ०।