Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 560
ऋषिः - रेणुर्वैश्वामित्रः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम - पावमानं काण्डम्
4

त्रि꣡र꣢स्मै स꣣प्त꣢ धे꣣न꣡वो꣢ दुदुह्रिरे स꣣त्या꣢मा꣣शि꣡रं꣢ पर꣣मे꣡ व्यो꣢मनि । च꣣त्वा꣢र्य꣣न्या꣡ भुव꣢꣯नानि नि꣣र्णि꣢जे꣣ चा꣡रू꣢णि चक्रे꣣ य꣢दृ꣣तै꣡रव꣢꣯र्धत ॥५६०॥

स्वर सहित पद पाठ

त्रिः꣢ । अ꣣स्मै । सप्त꣢ । धे꣣न꣡वः꣢ । दु꣣दुह्रिरे । सत्या꣢म् । आ꣣शि꣡र꣢म् । आ꣣ । शि꣡र꣢꣯म् । प꣣रमे꣢ । व्यो꣢मन् । वि । ओ꣣मनि । चत्वा꣡रि꣢ । अ꣣न्या꣢ । अ꣣न् । या꣢ । भु꣡व꣢꣯नानि । नि꣣र्णि꣡जे꣢ । निः꣣ । नि꣡जे꣢꣯ । चा꣡रू꣢꣯णि । च꣣क्रे । य꣢त् । ऋ꣣तैः꣢ । अ꣡व꣢꣯र्धत ॥५६०॥


स्वर रहित मन्त्र

त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि । चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥५६०॥


स्वर रहित पद पाठ

त्रिः । अस्मै । सप्त । धेनवः । दुदुह्रिरे । सत्याम् । आशिरम् । आ । शिरम् । परमे । व्योमन् । वि । ओमनि । चत्वारि । अन्या । अन् । या । भुवनानि । निर्णिजे । निः । निजे । चारूणि । चक्रे । यत् । ऋतैः । अवर्धत ॥५६०॥

सामवेद - मन्त्र संख्या : 560
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment

पदार्थः -
(परमे) उत्कृष्टे (व्योमनि) हृदयाकाशे (अस्मै) स्तोत्रे जनाय (त्रिः सप्त) एकविंशतिसंख्यका एकविंशतिच्छन्दोयुताः (धेनवः) वेदवाग्रूपा गावः (सत्याम् आशिरम्) सत्यरूपं दुग्धम् (दुदुह्रिरे) दुहन्ति। अत्र ‘बहुलं छन्दसि। अ० ७।१।८’ इति रुडागमः। (यत्) यदा एष (ऋतैः) सत्यैः ज्ञानकर्मभिः (अवर्द्धत) वृद्धिं गच्छति, तदायम् (निर्णिजे) आत्मनः शोधनाय पोषणाय वा। णिजिर् शौचपोषणयोः। चत्वारि चतुःसंख्यकानि (अन्या) अन्यानि (चारूणि) सुरम्याणि (भुवनानि) धर्मार्थकाममोक्षरूपाणि (चक्रे) सम्पादयति ॥७॥२ धेनुः इति वाङ्नामसु पठितम्। निघं० १।११। ‘वाग् वै धेनुः’ इति च ब्राह्मणम्, तां० ब्रा० १८।९।२१, गो० पू० २।२१। यद्वा वेदवाचि धेनुत्वारापोद्, उपमेयस्योपमानेन निगरणाच्चातिशयोक्तिरलङ्कारः ॥७॥

भावार्थः - सप्त गायत्र्यादीनि सप्त अतिजगत्यादीनि सप्त च कृत्यादीनि मिलित्वा एकविंशतिश्छन्दांसि भवन्ति। तन्मय्य एकविंशतिविधा वेदवाचः साक्षाद् धेनव इव सन्ति, याः स्वगोपालाय सत्यज्ञानरूपं सत्कर्तव्यबोधरूपं च पयः प्रयच्छन्ति, येन परिपुष्टः स धर्मार्थकाममोक्षरूपेषु चतुर्षु भुवनेषु कृतनिवासो जीवनसाफल्यमधिगच्छति ॥७॥

इस भाष्य को एडिट करें
Top