Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 569
ऋषिः - पर्वतनारदौ काण्वौ देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - पावमानं काण्डम्
5

तं꣡ वः꣢ सखायो꣣ म꣡दा꣢य पुना꣣न꣢म꣣भि꣡ गा꣢यत । शि꣢शुं꣣ न꣢ ह꣣व्यैः꣡ स्व꣢दयन्त गू꣣र्ति꣡भिः꣢ ॥५६९॥

स्वर सहित पद पाठ

त꣢म् । वः꣣ । सखायः । स । खायः । म꣡दा꣢꣯य । पु꣣नान꣢म् । अ꣣भि꣢ । गा꣣यत । शि꣡शु꣢꣯म् । न । ह꣣व्यैः꣢ । स्व꣣दयन्त । गूर्ति꣡भिः꣢ ॥५६९॥


स्वर रहित मन्त्र

तं वः सखायो मदाय पुनानमभि गायत । शिशुं न हव्यैः स्वदयन्त गूर्तिभिः ॥५६९॥


स्वर रहित पद पाठ

तम् । वः । सखायः । स । खायः । मदाय । पुनानम् । अभि । गायत । शिशुम् । न । हव्यैः । स्वदयन्त । गूर्तिभिः ॥५६९॥

सामवेद - मन्त्र संख्या : 569
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment

पदार्थः -
हे (सखायः) सुहृदः (वः) यूयम् (पुनानम्) पवित्रीकुर्वाणम् (तम्) प्रसिद्धं सोमाख्यं परमात्मानम् (अभि) अभिलक्ष्य (मदाय) आनन्दलाभाय (गायत) सामगानं कुरुत। उपासकाः तं परमात्मानम् (हव्यैः) आत्मसमर्पणैः (गूर्तिभिः२) स्तुतिभिः उद्यमैश्च। गॄ शब्दे, गूर उद्यमने, ततः क्तिन्। (स्वदयन्त) प्रसादयन्ति। स्वद आस्वादने, णिजन्तः, लडर्थे लङ्, अडागमाभावश्छान्दसः। (शिशुं न) शिशुं यथा (हव्यैः) देवपदार्थैः क्रीडनकादिभिः (गूर्तिभिः) क्रोडोद्यमनैश्च मातरः प्रसादयन्ति तद्वत् ॥४॥ अत्र श्लिष्टोपमालङ्कारः ॥४॥

भावार्थः - आराधनेन पुरुषार्थेन च प्रसादितः परमेश्वरः पावित्र्यादिसम्पादनद्वारेणानन्दप्रदानेन चाराधकस्य हिताय जायते ॥४॥

इस भाष्य को एडिट करें
Top