Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 583
ऋषिः - शक्तिर्वासिष्ठः
देवता - पवमानः सोमः
छन्दः - ककुप्
स्वरः - ऋषभः
काण्ड नाम - पावमानं काण्डम्
5
त्वं꣢ ह्या३꣱ङ्ग꣡ दै꣢व्यं꣣ प꣡व꣢मान꣣ ज꣡नि꣢मानि द्यु꣣म꣡त्त꣢मः । अ꣣मृतत्वा꣡य꣢ घो꣣ष꣡य꣢न् ॥५८३॥
स्वर सहित पद पाठत्व꣢म् । हि । अ꣣ङ्ग꣢ । दै꣣व्यम् । प꣡व꣢꣯मान । ज꣡नि꣢꣯मानि । द्यु꣣म꣡त्त꣢मः । अ꣣मृतत्वा꣡य꣢ । अ꣣ । मृतत्वा꣡य꣢ । घो꣣ष꣡य꣢न् ॥५८३॥
स्वर रहित मन्त्र
त्वं ह्या३ङ्ग दैव्यं पवमान जनिमानि द्युमत्तमः । अमृतत्वाय घोषयन् ॥५८३॥
स्वर रहित पद पाठ
त्वम् । हि । अङ्ग । दैव्यम् । पवमान । जनिमानि । द्युमत्तमः । अमृतत्वाय । अ । मृतत्वाय । घोषयन् ॥५८३॥
सामवेद - मन्त्र संख्या : 583
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment
विषयः - अथ सोमः परमात्मा किं करोतीत्याह।
पदार्थः -
(अङ्ग) हे प्रिय (पवमान) पवित्रतासम्पादक परमात्मसोम ! (त्वम् हि) त्वं खलु (दैव्यम्) देवेभ्यो विद्वद्भ्यो हितं कर्म, धारयसीति शेषः। तदेव निदर्शयति—(द्युमत्तमः) अतिशयेन देदीप्यमानः त्वम् (जनिमानि) जन्मानि, जन्मधारिणो विदुषः सदाचारिणो मनुष्यान् इत्यर्थः। अत्र जनी प्रादुर्भावे धातोः ‘जनिमृङ्भ्यामिमनिन्। उ० ४।१५०’ इति इमनिन् प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। (अमृतत्वाय) सांसारिकदुःखविमोक्षाय (घोषयन्) अधिकारित्वेन विज्ञापयन् भवसि ॥६॥
भावार्थः - परमेश्वरो हि कर्मानुसारं फलं प्रयच्छन् देवजनानां हितमेव साधयति। स एव मोक्षाधिकारिणो जनान् मोक्षप्रदानेन सत्करोति ॥६॥
टिप्पणीः -
१. ऋ० ९।१०८।३ ‘दैव्यं, घोषयन्’ इत्यत्र क्रमेण ‘दैव्या, घोषयः’ इति पाठः। साम० ९३८।