Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 584
ऋषिः - ऊरुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - ककुप्
स्वरः - मध्यमः
काण्ड नाम - पावमानं काण्डम्
5
ए꣣ष꣡ स्य धार꣢꣯या सु꣣तो꣢ऽव्या꣣ वा꣡रे꣢भिः पवते म꣣दि꣡न्त꣢मः । क्री꣡ड꣢न्नू꣣र्मि꣢र꣣पा꣡मि꣢व ॥५८४॥
स्वर सहित पद पाठए꣣षः । स्यः । धा꣡र꣢꣯या । सु꣣तः꣢ । अ꣡व्याः꣢꣯ । वा꣡रे꣢꣯भिः । प꣣वते । मदि꣡न्त꣢मः । क्रीड꣢न् । ऊ꣣र्मिः꣢ । अ꣣पा꣢म् । इ꣣व ॥५८४॥
स्वर रहित मन्त्र
एष स्य धारया सुतोऽव्या वारेभिः पवते मदिन्तमः । क्रीडन्नूर्मिरपामिव ॥५८४॥
स्वर रहित पद पाठ
एषः । स्यः । धारया । सुतः । अव्याः । वारेभिः । पवते । मदिन्तमः । क्रीडन् । ऊर्मिः । अपाम् । इव ॥५८४॥
सामवेद - मन्त्र संख्या : 584
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment
विषयः - अथ सोमो धारया पवते इत्याह।
पदार्थः -
प्रथमः—सोमौषधिरसपक्षे। (एषः) अयम् (स्यः) सः अस्माभिः पर्वतादानीतः (अव्याः वारेभिः) अवेर्बालैः, अविबालनिर्मितदशापवित्रैरित्यर्थः। (सुतः) अभिषुतः, (मदिन्तमः) अतिशयानन्दजनकः सोमौषधिरसः (अपाम्) उदकानाम् (ऊर्मिः इव) तरङ्गः इव (क्रीडन्) क्रीडां कुर्वन् (धारया) धारारूपेण (पवते) द्रोणकलशं गच्छति। पवते गतिकर्मा। निघं० २।१४ ॥ अथ द्वितीयः—परमात्मपक्षे। (एषः अयम् अनुभूयमानः (स्यः) स प्रसिद्धः (अव्याः वारेभिः) अविबालनिर्मितदशापवित्रैरिव पवित्रताकारकैः यमनियमादिभिर्योगाङ्गैः (सुतः) हृदये प्रकटीकृतः (मदिन्तमः) अतिशयानन्दजनकः सोमः परमात्मा (अपाम् ऊर्मिः इव) नदीनां तरङ्गः इव (क्रीडन्) क्रीडां कुर्वन् (धारया) आनन्दप्रवाहेण सह (पवते) मदीयमात्मानं प्राप्नोति ॥७॥ अत्र श्लेष उपमालङ्कारश्च। अपां तरङ्ग इव क्रीडन् सोमौषधिरसो यथा दशापवित्रैः सुतः सन् द्रोणकलशं प्राप्नोति तथा यमनियमादिभिर्योगसाधनैः हृदये प्रकटीकृतः क्रीडन्निव परमात्मसोम आनन्दप्रवाहेण सार्द्धं योगिनामात्मानमधिगच्छति ॥७॥
भावार्थः - समाधिस्था उपासकाः परमात्मनः सकाशाद् वेगेन स्वात्मानमागच्छन्तीमानन्दधारां साक्षादनुभवन्ति ॥७॥
टिप्पणीः -
१. ऋ० ९।१०८।५।