Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 588
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आरण्यं काण्डम्
5
य꣢स्ये꣣द꣢मा꣣ र꣢जो꣣यु꣡ज꣢स्तु꣣जे꣢꣫ जने꣣ व꣢न꣣꣬ꣳ स्वः꣢꣯ । इ꣡न्द्र꣢स्य꣣ र꣡न्त्यं꣢ बृ꣣ह꣢त् ॥५८८॥
स्वर सहित पद पाठय꣡स्य꣢꣯ । इ꣣द꣢म् । आ꣣ । र꣡जः꣢ । आ । र꣡जः꣢꣯ । यु꣡जः꣢ । तु꣣जे꣢ । ज꣡ने꣢꣯ । व꣡न꣢꣯म् । स्व३रि꣡ति꣢ । इ꣡न्द्र꣢꣯स्य । र꣡न्त्य꣢꣯म् । बृ꣣ह꣢त् ॥५८८॥
स्वर रहित मन्त्र
यस्येदमा रजोयुजस्तुजे जने वनꣳ स्वः । इन्द्रस्य रन्त्यं बृहत् ॥५८८॥
स्वर रहित पद पाठ
यस्य । इदम् । आ । रजः । आ । रजः । युजः । तुजे । जने । वनम् । स्व३रिति । इन्द्रस्य । रन्त्यम् । बृहत् ॥५८८॥
सामवेद - मन्त्र संख्या : 588
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment
विषयः - अथ तस्य परमेश्वरस्य धनं वर्णयति।
पदार्थः -
(आरजः२) लोकलोकान्तरपर्यन्तम् (युजः) सर्वैः पदार्थैः योगकारिणः (यस्य) परमेश्वरस्य (तुजे जने) क्षिप्रं कार्यकारिणि कर्मयोगिनि मनुष्ये। निघण्टौ (२।१५) तूतुजानः, तुज्यमानः, तूतुजिः इत्येतेषां क्षिप्रवाचिषु पाठात् तुज धातुः क्षिप्रार्थः। (वनम्) वननीयं सेवनीयम्। वन षण सम्भक्तौ। (स्वः) भौतिकमाध्यात्मिकं च धनम्, संसृज्यते इति शेषः, तस्य (इन्द्रस्य) परमेश्वरस्य (रन्त्यम्) रमणीयं ऐश्वर्यम् (बृहत्) महत् वर्तते ॥३॥
भावार्थः - जगति यत्रतत्र यद् विविधं धनं विकीर्णमस्ति तत् सर्वं परमात्मन एव विद्यते। पुरुषार्थिन एव जनास्तत् प्राप्तुमर्हन्ति ॥३॥
टिप्पणीः -
१. ऋ० ६।३३।१, ऋषिः जाटिकायनः। २. सायणस्तु ‘रजोयुजः’ इति समस्तं मत्वा व्याचष्टे—‘रजोयुजः ज्योतिर्भिर्युक्तस्य’ इति। तत्तु पदकारविरुद्धम्, पदपाठे ‘आरजः’ इति समस्तपदस्वीकारात् ‘युजः’ इति च पृथक् प्रदर्शनात्।