Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 595
ऋषिः - श्रुतकक्ष आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आरण्यं काण्डम्
4
त्व꣢मे꣣त꣡द꣢धारयः कृ꣣ष्णा꣢सु꣣ रो꣡हि꣢णीषु च । प꣡रु꣢ष्णीषु꣣ रु꣢श꣣त्प꣡यः꣢ ॥५९५॥
स्वर सहित पद पाठत्व꣢म् । ए꣣त꣢त् । अ꣣धारयः । कृष्णा꣡सु꣢ । रो꣡हि꣢꣯णीषु । च꣣ । प꣡रु꣢꣯ष्णीषु । रु꣡श꣢꣯त् । प꣡यः꣢꣯ ॥५९५॥
स्वर रहित मन्त्र
त्वमेतदधारयः कृष्णासु रोहिणीषु च । परुष्णीषु रुशत्पयः ॥५९५॥
स्वर रहित पद पाठ
त्वम् । एतत् । अधारयः । कृष्णासु । रोहिणीषु । च । परुष्णीषु । रुशत् । पयः ॥५९५॥
सामवेद - मन्त्र संख्या : 595
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment
विषयः - तत्र प्रथमाया इन्द्रो देवता। इन्द्रस्य परमात्मनः कौशलं वर्णयति।
पदार्थः -
अथ प्रथमः—धेनुपक्षे। हे इन्द्र जगदीश्वर ! (त्वम्) सर्वशक्तिमान् (कृष्णासु) कृष्णवर्णासु (रोहिणीषु च) लोहितवर्णासु च (परुष्णीषु) बहुस्नेहशीलासु मातृभूतासु गोषु। पुरु बहु स्निह्यन्तीति परुष्ण्यः। (एतत्) इदमस्माभिः प्रत्यहमास्वाद्यमानम् (रुशत्) उज्ज्वलम्। रुशदिति वर्णनाम, रोचतेर्ज्वलतिकर्मणः। निरु० ६।१३। (पयः) दुग्धम् (अधारयः) धारितवानसि ॥ अथ द्वितीयः—नदीपक्षे। हे इन्द्र परमात्मन् ! (त्वम्) जगद्व्यवस्थापकः (कृष्णासु) कृषिकर्मसाधिकासु (रोहिणीषु च) वृक्षवनस्पत्यादीनां रोहणकर्त्रीषु च (परुष्णीषु) पर्ववतीषु वक्रगामिनीषु नदीषु। परुष्णी पर्ववती भास्वती कुटिलगामिनी। निरु० ९।२४। (एतत्) इदम् (रुशत्) उज्ज्वलम् (पयः) जलम् (अधारयः) निहितवानसि ॥ अथ तृतीयः—नाडीपक्षे। हे इन्द्र जगत्पते परमात्मन् ! (त्वम्) प्राणिदेहसञ्चालकः (कृष्णासु) नीलवर्णासु शिरानाम्ना प्रसिद्धासु (रोहिणीषु च) लोहितवर्णासु धमनिनाम्ना ख्यातासु च (परुष्णीषु) परुषि परुषि अङ्गे अङ्गे नीयन्ते रक्तं नयन्तीति वा ताः परुष्ण्यः, तासु रक्तनाडीषु (एतत्) इदम् (रुशत्) दीप्तम्—शिरासु नीलवर्णतया दीप्तं, धमनिषु च लोहितवर्णतया दीप्तम् (पयः) रक्तजलम् (अधारयः) धृतवानसि ॥ अथ चतुर्थः—रात्रिपक्षे। हे इन्द्र राजाधिराज परमेश्वर ! (त्वम्) दिनरात्रिचक्रप्रवर्तकः (कृष्णासु) अंशतः पूर्णतो वा कृष्णवर्णासु (रोहिणीषु च) प्रकाशोज्ज्वलासु च (परुष्णीषु) कृष्णशुक्लपर्वयुक्तासु रात्रिषु (एतत्) सर्वैर्दृश्यमानम् (रुशत्) दीप्यत् (पयः) अवश्यायजलम् (अधारयः) धृतवानसि ॥१॥ अत्र श्लेषालङ्कारः ॥१॥
भावार्थः - परमात्मन एवेदं कौशलं यत् स विविधवर्णासु गोषु श्वेतं पयः, नदीषु समुज्ज्वलं जलं शरीरस्थासु नाडीषु नीलं लोहितं च रुधिरं, कृष्णशुक्लासु रात्रिषु चावश्यायसलिलं जनयति ॥१॥
टिप्पणीः -
१. ऋ० ८।९३।१३ ऋषिः सुकक्षः।