Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 600
ऋषिः - गृत्समदः शौनकः
देवता - वायुः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आरण्यं काण्डम्
4
नि꣣यु꣡त्वा꣢꣯न्वाय꣣वा꣡ ग꣢ह्य꣣य꣢ꣳ शु꣣क्रो꣡ अ꣢यामि ते । ग꣡न्ता꣢सि सुन्व꣣तो꣢ गृ꣣ह꣢म् ॥६००॥
स्वर सहित पद पाठनि꣣यु꣡त्वा꣢न् । नि꣣ । यु꣡त्वा꣢꣯न् । वा꣣यो । आ꣢ । ग꣣हि । अय꣢म् । शु꣣क्रः꣢ । अ꣣यामि । ते । ग꣡न्ता꣢꣯ । अ꣣सि । सुन्वतः꣢ । गृ꣣ह꣢म् ॥६००॥
स्वर रहित मन्त्र
नियुत्वान्वायवा गह्ययꣳ शुक्रो अयामि ते । गन्तासि सुन्वतो गृहम् ॥६००॥
स्वर रहित पद पाठ
नियुत्वान् । नि । युत्वान् । वायो । आ । गहि । अयम् । शुक्रः । अयामि । ते । गन्ता । असि । सुन्वतः । गृहम् ॥६००॥
सामवेद - मन्त्र संख्या : 600
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment
विषयः - अथ वायुर्देवता। वायुनाम्ना परमेश्वरमाह्वयति।
पदार्थः -
हे (वायो२) वायुवदनन्तबल सर्वशोधक सर्वेषां जीवनाधार प्राणप्रिय परमात्मन् ! तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः। य० ३२।१ इति प्रामाण्याद् वायुशब्दः परमेश्वरवाचकः। (नियुत्वान्) नियमन-नियोजन-सामर्थ्यवान् त्वम्। नियुतो नियमनाद् वा नियोजनाद् वेति यास्कः। निरु० ५।२७। (आ गहि) मम नियमनाय सत्कर्मसु नियोजनाय वा आगच्छ। (अयम्) एषः (शुक्रः) पवित्रः प्रदीप्तश्च ज्ञानकर्म-भक्ति-रसः। शुचिर् पूतीभावे, शुच दीप्तौ। (ते) तुभ्यम् (अयामि) मया अर्पितोऽस्ति। यच्छतेः कर्मणि लुङि रूपम्। अनुपसृष्टोऽप्ययं क्वचिद् दानार्थे दृश्यते। त्वम् (सुन्वतः) ज्ञान-कर्म-भक्तिमयं यज्ञं कुर्वतो यजमानस्य (गृहम्) हृदयसदनम् (गन्ता३) गमनकर्ता (असि) भवसि ॥६॥४
भावार्थः - ज्ञानयज्ञः कर्मयज्ञो भक्तियज्ञश्च संमिलिता एव परमात्मनः कृपां लम्भयन्ते ॥६॥
टिप्पणीः -
१. ऋ० २।४१।२, य० २७।२९। २. ‘अनन्तबलवत्त्वसर्वधातृत्वाभ्यां परमेश्वरो वायुशब्दवाच्यः’ इति य० ३२।१ भाष्ये ‘वायुरिव सर्वशोधक सर्वत्र गन्त सर्वप्रियेश्वर’ इति च य० २७।२९ भाष्ये—द०। ३. गन्ता गमनशीलः। तृन्नन्तोऽयं गन्ता, उदात्तः। तद्धर्मा वा तत्साधुकारी वा एते हि तृनोऽर्थाः इति य० २७।२९ भाष्ये उवटः। महीधरोऽपि ‘तृन्नन्त आद्युदात्तत्वात्’ इत्याह। ४. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्वेदे विद्वत्पक्षे युजुर्वेदे च परमेश्वरपक्षे व्याख्यातः।