Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 603
ऋषिः - गोतमो राहूगणः देवता - सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आरण्यं काण्डम्
3

सं꣢ ते꣣ प꣡या꣢ꣳसि꣣ स꣡मु꣢ यन्तु꣣ वा꣢जाः꣣ सं꣢꣯ वृष्ण्या꣢꣯न्यभिमाति꣣षा꣡हः꣢ । आ꣣प्या꣡य꣢मानो अ꣣मृ꣡ता꣢य सोम दि꣣वि꣡ श्रवा꣢꣯ꣳस्युत्त꣣मा꣡नि꣢ धिष्व ॥६०३॥

स्वर सहित पद पाठ

स꣢म् । ते꣣ । प꣡याँ꣢꣯सि । सम् । उ꣣ । यन्तु । वा꣡जाः꣢꣯ । सम् । वृ꣡ष्ण्या꣢꣯नि । अ꣣भिमातिषा꣡हः꣢ । अ꣣भिमाति । सा꣡हः꣢꣯ । आ꣣प्या꣡य꣢मानः । आ꣣ । प्या꣡यमा꣢꣯नः । अ꣣मृ꣡ता꣢य । अ꣣ । मृ꣡ता꣢꣯य । सो꣣म । दिवि꣢ । श्र꣡वाँ꣢꣯सि । उ꣣त्तमा꣡नि꣢ । धि꣣ष्व ॥६०३॥


स्वर रहित मन्त्र

सं ते पयाꣳसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवाꣳस्युत्तमानि धिष्व ॥६०३॥


स्वर रहित पद पाठ

सम् । ते । पयाँसि । सम् । उ । यन्तु । वाजाः । सम् । वृष्ण्यानि । अभिमातिषाहः । अभिमाति । साहः । आप्यायमानः । आ । प्यायमानः । अमृताय । अ । मृताय । सोम । दिवि । श्रवाँसि । उत्तमानि । धिष्व ॥६०३॥

सामवेद - मन्त्र संख्या : 603
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment

पदार्थः -
हे (सोम) पवित्रतासंपादक करुणारसागार परमात्मन् ! (अभिमातिषाहः) कामादिशत्रुपराजयकारिणः ते तव (पयांसि) प्रेमरसाः आनन्दरसाश्च (सं यन्तु) अस्मान् प्राप्नुवन्तु, (उ ) अपि च (वाजाः) बलानि (सम्) अस्मान् प्राप्नुवन्तु। (वृष्ण्यानि) पुरुषार्थयुक्तकर्माणि (सम्) अस्मान् प्राप्नुवन्तु। (आप्यायमानः) हृदि वर्द्धमानः त्वम्। ओप्यायी वृद्धौ। (अमृताय) अमरत्वप्रदानाय (दिवि) अस्माकम् आत्मनि (उत्तमानि) उत्कृष्टतमानि (श्रवांसि) यशांसि (धिष्व) निधेहि। अत्र ‘सुधितवसुधितनेमधितधिष्वधिषीय च। अ० ७।४।४५’ इति लोण्मध्यमैकवचने दधातेरित्वमिडागमो वा प्रत्ययस्य द्विर्वचनाभावश्च निपात्यते ॥२॥२ अत्र यथा सोमश्चन्द्रो वर्धमानः सन् गगने उत्तमां चन्द्रिकां प्रसारयतीति ध्वन्यते। तेन परमात्मा चन्द्र इवेत्युपमाध्वनिः ॥२॥

भावार्थः - यथा यथा परमात्मध्यानमस्माकं वर्द्धते तथा तथास्मदन्तःकरणे परमात्मा वर्धमान इवास्मभ्यमानन्दमात्मबलं कर्मनिष्ठत्वमुत्तमानि यशांसि च प्रयच्छति ॥२॥

इस भाष्य को एडिट करें
Top