Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 618
ऋषिः - वामदेवो गौतमः
देवता - पुरुषः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आरण्यं काण्डम्
3
त्रि꣣पा꣢दू꣣र्ध्व꣢꣫ उदै꣣त्पु꣡रु꣢षः꣣ पादो꣢ऽस्ये꣣हा꣡भ꣢व꣣त्पु꣡नः꣢ । त꣢था꣣ वि꣢ष्व꣣꣬ङ् व्य꣢꣯क्रामदशनानश꣣ने꣢ अ꣣भि꣢ ॥६१८॥
स्वर सहित पद पाठत्रि꣣पा꣢त् । त्रि꣣ । पा꣢त् । ऊ꣣र्ध्वः꣢ । उत् । ऐ꣣त् । पु꣡रु꣢꣯षः । पा꣡दः꣢꣯ । अ꣣स्य । इह꣢ । अ꣣भवत् । पु꣢न꣣रि꣡ति꣢ । त꣡था꣢꣯ । वि꣡ष्व꣢꣯ङ् । वि । स्व꣣ङ् । वि꣢ । अ꣣क्रामत् । अशनानशने꣢ । अ꣣शन । आनशने꣡इति꣢ । अ꣣भि꣢ ॥६१८॥
स्वर रहित मन्त्र
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः । तथा विष्वङ् व्यक्रामदशनानशने अभि ॥६१८॥
स्वर रहित पद पाठ
त्रिपात् । त्रि । पात् । ऊर्ध्वः । उत् । ऐत् । पुरुषः । पादः । अस्य । इह । अभवत् । पुनरिति । तथा । विष्वङ् । वि । स्वङ् । वि । अक्रामत् । अशनानशने । अशन । आनशनेइति । अभि ॥६१८॥
सामवेद - मन्त्र संख्या : 618
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
विषयः - अथ पुनरपि तमेव परमपुरुषं वर्णयति।
पदार्थः -
(त्रिपात्) त्रि-चतुर्थाशः (पुरुषः) पूर्वोक्तः परमेश्वरः (ऊर्ध्वः उत्-ऐत्) अस्माज्जगतः ऊर्ध्वम् उद्गतोऽस्ति, (इह पुनः) अस्मिन् संसारे तु (अस्य) पूर्णस्य परमेश्वरस्य (पादः) एकश्चतुर्थांश एव (अभवत्) विद्यते। (तथा) तेनैव प्रकारेण एकचतुर्थांशव्याप्त्या इत्यर्थः (वि-स्वङ्२) विविधपदार्थान् सम्यक् प्राप्तः सन्। वि विविधतया सु सम्यग् अञ्चतीति विष्वङ्। (अशनानशने अभि) चेतनाचेतने अभिलक्ष्य। अश्नाति भोगान् भुङ्क्ते इति अशनं चेतनं तद्भिन्नम् अनशनं, ते अशनानशने। (व्यक्रामत्) विचेष्टते, चेतनाचेतनानां मनुष्यादिप्राणिनाम् अग्निसूर्यपवनगिरिनद्यादीनां च यथायोग्यं प्राणनादिव्यापारं स्थित्यादिव्यापारं च विधत्ते इति भावः ॥४॥३
भावार्थः - चेतनाचेतनात्मकेऽस्मिन् जगति यन्महत् कर्तृत्वं दृष्टिगोचरतां याति तत्र परमेश्वरसामर्थ्यस्य स्वल्पांश एव क्रियाशीलो भवति, परमेश्वरस्य वास्तवं सामर्थ्यं स्वरूपं च लोकातिगं वर्तते ॥४॥
टिप्पणीः -
१. ऋ० १०।९०।४, य० ३१।४ उभयत्र ‘ततो विष्वङ् व्यक्रामत् साशनानशने अभि’ इति पाठः। अथ० १९।६।२ ‘त्रिभिः पद्भिर्द्यामरोहत् पादस्येहाभवत् पुनः। तथा व्यक्रामद् विष्वङशनानशने अनु’ ॥ इति पाठः। २. विष्वङ् देवतिर्यगादिरूपेण विविधः सन्—इति सा०। विषु सर्वत्राञ्चतीति विष्वङ् देवतिर्यगादिरूपेण विविधः सन्—इति यजुर्भाष्ये म०। यो विषु सर्वत्राञ्चति प्राप्नोति—इति तत्रैव द०। अस्माभिस्तु वि-स्वङ् इति पदपाठः आदृतः। ३. दयानन्दर्षिरपि मन्त्रमेतं यजुर्भाष्ये परमेश्वरपक्षे व्याख्यातवान्।