Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 621
ऋषिः - नारायणः देवता - पुरुषः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आरण्यं काण्डम्
4

त꣡तो꣢ वि꣣रा꣡ड꣢जायत वि꣣रा꣢जो꣣ अ꣢धि꣣ पू꣡रु꣢षः । स꣢ जा꣣तो꣡ अत्य꣢꣯रिच्यत प꣣श्चा꣢꣫द्भूमि꣣म꣡थो꣢ पु꣣रः꣢ ॥६२१॥

स्वर सहित पद पाठ

त꣡तः꣢꣯ । वि꣣रा꣢ट् । वि꣣ । रा꣢ट् । अ꣣जायत । वि꣣रा꣢जः । वि꣣ । रा꣡जः꣢꣯ । अ꣡धि꣢꣯ । पू꣡रु꣢꣯षः । सः । जा꣣तः꣢ । अ꣡ति꣢꣯ । अ꣣रिच्यत । पश्चा꣢त् । भू꣡मि꣢꣯म् । अ꣡थ꣢꣯ । उ꣣ । पुरः꣢ ॥६२१॥


स्वर रहित मन्त्र

ततो विराडजायत विराजो अधि पूरुषः । स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥६२१॥


स्वर रहित पद पाठ

ततः । विराट् । वि । राट् । अजायत । विराजः । वि । राजः । अधि । पूरुषः । सः । जातः । अति । अरिच्यत । पश्चात् । भूमिम् । अथ । उ । पुरः ॥६२१॥

सामवेद - मन्त्र संख्या : 621
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment

पदार्थः -
(ततः) तस्मादेव निमित्तकारणरूपात् परमपुरुषात् परमेश्वरात्। निमित्तकारणेऽपि क्वचित् पञ्चमी दृश्यते, यथा ‘आदित्याज्जायते वृष्टिः’ इति मनुः ३।७६। (विराट्) विशेषेण देदीप्यमानं पिण्डम् (अजायत) उत्पन्नम्। (पूरुषः) सर्वत्र पूर्णः परमेश्वरः एव (विराजः अधि२) तद् विशेषेण राजमानं पिण्डम् अधितिष्ठति स्म। (जातः सः) उत्पन्नं तत् विराडाख्यं पिण्डम् (अत्यरिच्यत३) अतिरिक्तं जातं, भूम्यादिखण्डेषु प्रविभक्तम् इत्यर्थः। स परमेश्वरः (भूमिम्) भूम्यादिलोकोत्पत्तेः (पश्चात्) अनन्तरम् (अथ उ) अथ च (पुरः४) पूर्वम्, विद्यमानः आसीत् ॥७॥५

भावार्थः - अस्माकं सौरमण्डलस्य जन्म कथं सञ्जातमिति मन्त्रेऽस्मिन् वर्णितम्। आदौ तावद् बृहन्नीहारिकारूपं देदीप्यमानं प्रज्वलत् पिण्डमेकमुत्पन्नम्। आकाशे वेगेन परिभ्राम्यतः तस्मात् कानिचित् खण्डानि पृथग्भूतानि। अवशिष्टो भागः सूर्यो जातः, पृथग्भूतानि खण्डानि च भूमिमंगलबुधबृहस्पत्यादीनि संजातानि। एवमेवान्येषामपि सौरमण्डलानामुत्पत्तिर्जातेति बोध्यम्। परमात्मनोऽधिष्ठातृत्व एव एतत्सर्वं सम्पन्नम् ॥७॥

इस भाष्य को एडिट करें
Top