Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 627
ऋषिः - शतं वैखानसाः
देवता - अग्निः पवमानः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आरण्यं काण्डम्
4
अ꣢ग्न꣣ आ꣡यू꣢ꣳषि पवस꣣ आ꣢सु꣣वो꣢र्ज꣣मि꣡षं꣢ च नः । आ꣣रे꣡ बा꣢धस्व दु꣣च्छु꣡ना꣢म् ॥६२७॥
स्वर सहित पद पाठअ꣡ग्ने꣢꣯ । आ꣡यूँ꣢꣯षि । प꣣वसे । आ꣢ । सु꣣व । ऊ꣡र्ज꣢꣯म् । इ꣡ष꣢꣯म् । च꣣ । नः । आरे꣢ । बा꣣धस्व । दुच्छु꣡ना꣢म् ॥६२७॥
स्वर रहित मन्त्र
अग्न आयूꣳषि पवस आसुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥६२७॥
स्वर रहित पद पाठ
अग्ने । आयूँषि । पवसे । आ । सुव । ऊर्जम् । इषम् । च । नः । आरे । बाधस्व । दुच्छुनाम् ॥६२७॥
सामवेद - मन्त्र संख्या : 627
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment
विषयः - तत्राद्याया अग्निः पवमानो देवता। अग्निनाम्ना परमात्मा, विद्वान्, राजा च प्रार्थ्यते।
पदार्थः -
हे (अग्ने) अग्रनायक परमात्मन् विद्वन् राजन् वा ! त्वम् (आयूंषि) अस्माकं जीवनानि (पवसे) पवित्रीकुर्याः। पूङ् पवने भ्वादिः, लेटि रूपम्। (नः) अस्मभ्यम् (ऊर्जम्) बलं प्राणं च। ऊर्ज बलप्राणनयोः, चुरादिः। (इषं च२) विज्ञानं च। इष गतौ दिवादिः। गतेस्त्रयोऽर्था ज्ञानं गमनं प्राप्तिश्च। (आ सुव) समन्तात् प्रेरय, आगमय। षू प्रेरणे तुदादिः। (दुच्छुनाम्३) दुर्गतिम् (आरे) दूरम् (बाधस्व) प्रक्षिप ॥१॥४ अत्र अर्थश्लेषालङ्कारः ॥१॥
भावार्थः - मनुष्यैः परमात्मानमुपास्य, विद्वांसौ स्त्री-पुरुषौ राजानं च संगत्य जीवनेषु पवित्रतामानीय, बलप्राणविज्ञानादिकं च संचित्य दुःखदुर्गत्यादयो विनाशनीयाः ॥१॥
टिप्पणीः -
१. ऋ० ९।६६।१९, य० १९।३८ ऋषिः वैखानसः। य० ३५।१६ ऋषयः आदित्या देवाः। साम० १४६४, १५१८। २. (इषम्) इच्छासिद्धिम्—इति य० १९।३८ भाष्ये, (इषम्) विज्ञानम्—इति च य० ३५।१६ भाष्ये द०। ३. आकारान्तोऽयं शब्दः दुच्छुना ऋ० २।२३।६, दुच्छुनाः ऋ० १।११६।२१, दुच्छुनाभ्यः ऋ० २।३२।२, दुच्छुनायै ऋ० १।१८९।५ इत्यादिप्रयोगदर्शनात्। शुना गतिः (टुओश्वि गतिवृद्ध्योः), दुष्टा शुना दुच्छुना दुर्गतिः। न तु ‘दुच्छ्वा’ इत्यस्य षष्ठ्यन्तं रूपं दुच्छुनामिति। ४. दयानन्दर्षिर्मन्त्रमिमं यजुर्भाष्ये १९।३८ इत्यत्र विद्वत्पितृपितामहप्रपितामहपक्षे, ३५।१६ इत्यत्र च परमेश्वरपक्षे विद्वत्पक्षे च व्याख्यातवान्।