Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 657
ऋषिः - शतं वैखानसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

प꣡व꣢मानस्य ते कवे꣣ वा꣢जि꣣न्त्स꣡र्गा꣢ असृक्षत । अ꣡र्व꣢न्तो꣣ न꣡ श्र꣢व꣣स्य꣡वः꣢ ॥६५७॥

स्वर सहित पद पाठ

प꣡व꣢꣯मानस्य । ते꣣ । कवे । वा꣡जि꣢꣯न् । स꣡र्गाः꣢꣯ । अ꣣सृक्षत । अ꣡र्व꣢꣯न्तः । न । श्र꣣वस्य꣡वः꣢ ॥६५७॥


स्वर रहित मन्त्र

पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षत । अर्वन्तो न श्रवस्यवः ॥६५७॥


स्वर रहित पद पाठ

पवमानस्य । ते । कवे । वाजिन् । सर्गाः । असृक्षत । अर्वन्तः । न । श्रवस्यवः ॥६५७॥

सामवेद - मन्त्र संख्या : 657
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (कवे) वेदकाव्यकार ! हे (वाजिन्) बलवन् परमेश्वर ! (पवमानस्य) पवित्रीकुर्वतः (ते) तव (सर्गाः) आनन्दधाराः। [सृज्यन्ते इति सर्गाः धाराः।] (श्रवस्यवः) अस्माकं कीर्तिं कामयमानाः सत्यः। [छन्दसि परेच्छायां क्यच्। ततश्च ‘क्याच्छन्दसि’ अ० ३।२।१७० इति उः प्रत्ययः।] (असृक्षत) विसृष्टा भवन्ति, प्रस्यन्दन्ते। [सृज विसर्गे, कर्मणि लुङि छान्दसं रूपम्।] कथमिव ? (अर्वन्तः न) यथा अश्वाः, [अश्वशालायाः विसृष्टा भवन्ति।] अर्वन्तः अपि कीदृशाः ? (श्रवस्यवः) श्रवः घासादिकम् अन्नम् आत्मनः कामयमानाः। बहिर्गत्वा गोचरेषु घासं चरितुकामाः अश्वाः यथा सद्यो मन्दुरातो निर्गच्छन्ति तथेत्यर्थः। [श्रवः इत्यन्ननाम यशोनाम च। निघं० २।७, ११।७] ॥१॥ अत्रोपमालङ्कारः। ‘श्रवस्यवः’ इत्यत्र श्लेषः ॥१॥

भावार्थः - परमात्मोपासका जनाः परमात्मनः सकाशात् स्वात्मानं प्रविशतोऽमन्दानन्दनिर्झरान् साक्षादनुभवन्ति ॥१॥

इस भाष्य को एडिट करें
Top