Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 658
ऋषिः - शतं वैखानसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
अ꣢च्छा꣣ को꣡शं꣢ मधु꣣श्चु꣢त꣣म꣡सृ꣢ग्रं꣣ वा꣡रे꣢ अ꣣व्य꣡ये꣢ । अ꣡वा꣢वशन्त धी꣣त꣡यः꣢ ॥६५८॥
स्वर सहित पद पाठअ꣡च्छ꣢꣯ । को꣡श꣢꣯म् । म꣣धुश्चु꣡त꣢म् । म꣣धु । श्चु꣡त꣢꣯म् । अ꣡सृ꣢꣯ग्रम् । वा꣡रे꣢꣯ । अ꣣व्य꣡ये꣣ । अ꣡वा꣢꣯वशन्त । धी꣣त꣡यः꣢ ॥६५८॥
स्वर रहित मन्त्र
अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये । अवावशन्त धीतयः ॥६५८॥
स्वर रहित पद पाठ
अच्छ । कोशम् । मधुश्चुतम् । मधु । श्चुतम् । असृग्रम् । वारे । अव्यये । अवावशन्त । धीतयः ॥६५८॥
सामवेद - मन्त्र संख्या : 658
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनः सोमरसविषयमाह।
पदार्थः -
प्रथमः—सोमौषधिरसपक्षे। अहम् (मधुश्चुतम्) मधुस्राविणं सोमौषधिरसम्, (कोशम् अच्छ) द्रोणकलशम् अभिलक्ष्य (अव्यये वारे) अविस्वभूते बाले, अविबालमये दशापवित्रे इत्यर्थः (असृग्रम्२) विसृजामि। मम (धीतयः) अङ्गुलयः। [धीतयः इत्यङ्गुलिनाम। निघं० २।५।] (अवावशन्त) सोमं क्षारयितुं कामयन्ते, प्रवर्तन्ते इत्यर्थः। [वश कान्तौ, यङ्लुगन्तः]। द्वितीयः—ब्रह्मानन्दपक्षे। अहम् (मधुश्चुतम्) माधुर्यस्राविणं ब्रह्मानन्दरूपं सोमरसम् (कोशम् अच्छ) मनोबुद्धिज्ञानेन्द्रियरूपं विज्ञानमयकोशं प्रापयितुम् (अव्यये वारे) अविनश्वरे कामक्रोधादिशत्रुनिवारयितरि आत्मनि (असृग्रम्) विसृजामि। मम (धीतयः) स्तुतयः (अवावशन्त) प्रभुगीतानि शब्दायन्ते। [वाशृ शब्दे धातोर्यङ्लुकि छान्दसं रूपम्] ॥२॥ अत्र श्लेषालङ्कारः ॥२॥
भावार्थः - यथा सोमौषधिरसो दशापवित्रमाध्यमेन द्रोणकलशं प्रवेश्यते तथैव ब्रह्मानन्दरस आत्मद्वारेण सर्वस्मिन्नपि मनोबुद्ध्यादौ प्रवेशनीयो येनास्माकं दर्शनश्रवणमनननिदिध्यासनादिकं सर्वमपि व्यवहारजातं ब्रह्मानन्दमयं भवेत् ॥२॥
टिप्पणीः -
१. ऋ० ९।६६।११। २. असृग्रम् ‘बहुलं छन्दसि’ अ० ७।१।८ अनेन सृजधातोः रुडागमः, वर्णव्यत्ययेन जकारस्थाने गकारः, लडर्थे लङ् च इति ऋ० १।९।४ भाष्ये द०।