Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 677
ऋषिः - उशना काव्यः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
4

प्र꣡ तु द्र꣢꣯व꣣ प꣢रि꣣ को꣢शं꣣ नि꣡ षी꣢द꣣ नृ꣡भिः꣢ पुना꣣नो꣢ अ꣣भि꣡ वाज꣢꣯मर्ष । अ꣢श्वं꣣ न꣡ त्वा꣢ वा꣣जि꣡नं꣢ म꣣र्ज꣢य꣣न्तो꣡ऽच्छा꣢ ब꣣र्ही꣡ र꣢श꣣ना꣡भि꣢र्नयन्ति ॥६७७॥

स्वर सहित पद पाठ

प्र꣢ । तु । द्र꣣व । प꣡रि꣢꣯ । कोशम् । नि । सी꣣द । नृ꣡भिः꣢꣯ । पु꣡नानः꣢ । अ꣣भि꣢ । वा꣡ज꣢꣯म् । अ꣣र्ष । अ꣡श्व꣢꣯म् । न । त्वा꣣ । वाजि꣡न꣢म् । म꣣र्ज꣡य꣢न्तः । अ꣡च्छ꣢꣯ । ब꣣र्हिः꣡ । र꣣शना꣡भिः꣢ । न꣣यन्ति ॥६७७॥


स्वर रहित मन्त्र

प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष । अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥६७७॥


स्वर रहित पद पाठ

प्र । तु । द्रव । परि । कोशम् । नि । सीद । नृभिः । पुनानः । अभि । वाजम् । अर्ष । अश्वम् । न । त्वा । वाजिनम् । मर्जयन्तः । अच्छ । बर्हिः । रशनाभिः । नयन्ति ॥६७७॥

सामवेद - मन्त्र संख्या : 677
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
हे शिष्य ! त्वम् (तु) सद्यः एव (प्र द्रव) प्रकर्षाय प्रयतस्व। तदर्थं (कोशम्) विद्यायाः निधिभूतं गुरुम् (परि निषीद) परिसेवस्व। (नृभिः) नेतृभिः गुरुजनैः (पुनानः) स्वात्मानं पावयन् (वाजम्) शारीरम् आत्मिकं च बलम् (अभ्यर्ष) प्राप्नुहि। एते गुरवः (वाजिनम्) बलिनम् (त्वा) त्वाम् (मर्जयन्तः) शोधयन्तः सद्गुणालङ्कारैः अलङ्कुर्वन्तश्च। [मृजू शौचालङ्कारयोः, वृद्ध्यभावश्छान्दसः।] (रशनाभिः) नियन्त्रणैः मर्यादाभिश्च (बर्हिः अच्छ) ज्ञानकाण्डं कर्मकाण्डं२ च प्रति (नयन्ति) प्रेरयन्ति। कथमिव ? (वाजिनम् अश्वं न) बलवन्तं तुरगं यथा साङ्ग्रामिकाः जनाः (रशनाभिः) अभीषुभिः (बर्हिः अच्छ) संग्रामं प्रति। [बर्हयन्ति हिंसन्ति यत्र परस्परं तद् बर्हिः सङ्ग्रामः। बर्ह हिंसायाम् चुरादिः।] (नयन्ति) प्रेरयन्ति ॥१॥ अत्र श्लिष्टोपमालङ्कारः ॥१॥

भावार्थः - महान् खल्वस्मासु गुरूणामुपकारो ये निर्बोधानस्मान् विद्यावतस्तपस्विनः पवित्राचरणांश्च विधाय समुन्नयन्ति ॥१॥

इस भाष्य को एडिट करें
Top