Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 678
ऋषिः - उशना काव्यः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
4

स्वा꣣युधः꣡ प꣢वते दे꣣व꣡ इन्दुर꣢꣯शस्ति꣣हा꣢ वृ꣣ज꣢ना꣣ र꣡क्ष꣢माणः । पि꣣ता꣢ दे꣣वा꣡नां꣢ जनि꣣ता꣢ सु꣣द꣡क्षो꣢ विष्ट꣣म्भो꣢ दि꣣वो꣢ ध꣣रु꣡णः꣢ पृथि꣣व्याः꣢ ॥६७८॥

स्वर सहित पद पाठ

स्वा꣣युधः꣢ । सु꣣ । आयुधः꣢ । प꣣वते । देवः꣡ । इ꣢न्दुः꣢꣯ । अ꣣शस्तिहा꣢ । अ꣣शस्ति । हा꣢ । वृ꣣ज꣡ना꣢ । र꣡क्ष꣢꣯माणः । पि꣣ता꣢ । दे꣣वा꣡ना꣢म् । ज꣣निता꣢ । सु꣣द꣡क्षः꣢ । सु꣣ । द꣡क्षः꣢꣯ । वि꣡ष्टम्भः꣢ । वि꣣ । स्तम्भः꣢ । दि꣣वः꣢ । ध꣣रु꣡णः꣢ । पृ꣣थिव्याः꣢ ॥६७८॥


स्वर रहित मन्त्र

स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः । पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥६७८॥


स्वर रहित पद पाठ

स्वायुधः । सु । आयुधः । पवते । देवः । इन्दुः । अशस्तिहा । अशस्ति । हा । वृजना । रक्षमाणः । पिता । देवानाम् । जनिता । सुदक्षः । सु । दक्षः । विष्टम्भः । वि । स्तम्भः । दिवः । धरुणः । पृथिव्याः ॥६७८॥

सामवेद - मन्त्र संख्या : 678
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
(स्वायुधः२) भद्रदण्डः, (देवः) सुखादीनां दाता, (अशस्तिहा३) अप्रशस्तेः हन्ता, (वृजना) वृजनानि बलानि [वृजनम् इति बलनाम। निघं० २।९।] (रक्षमाणः) त्रायमाणः, (पिता) पितृवद् वर्तमानः, (देवानाम्) विदुषाम्, (जनिता) जनयिता, (सुदक्षः) शोभनबलः, (दिवः) विद्यासूर्यस्य (विष्टम्भः) आधारभूतः, (पृथिव्याः) राष्ट्रभूमेः (धरुणः) धारयिता, (इन्दुः) तेजसा दीप्तः गुरुः (पवते) पवित्रतां प्रयच्छति ॥२॥

भावार्थः - मन्त्रोक्तगुणयुक्तं गुरुं ये सेवन्ते ते विद्वांसः सदाचाराः प्रशस्तकीर्तयश्च जायन्ते ॥२॥

इस भाष्य को एडिट करें
Top