Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 683
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
क꣡स्त्वा꣢ स꣣त्यो꣡ मदा꣢꣯नां꣣ म꣡ꣳहि꣢ष्ठो मत्स꣣द꣡न्ध꣢सः । दृ꣣ढा꣡ चि꣢दा꣣रु꣢जे꣣ व꣡सु꣢ ॥६८३॥
स्वर सहित पद पाठकः꣡ । त्वा꣣ । सत्यः꣢ । म꣡दा꣢꣯नाम् । म꣡ꣳहि꣢꣯ष्ठः । म꣣त्सत् । अ꣡न्ध꣢꣯सः । दृ꣣ढा꣢ । चि꣣त् । आरु꣡जे꣢ । आ꣣ । रु꣡जे꣢꣯ । व꣡सु꣢꣯ ॥६८३॥
स्वर रहित मन्त्र
कस्त्वा सत्यो मदानां मꣳहिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु ॥६८३॥
स्वर रहित पद पाठ
कः । त्वा । सत्यः । मदानाम् । मꣳहिष्ठः । मत्सत् । अन्धसः । दृढा । चित् । आरुजे । आ । रुजे । वसु ॥६८३॥
सामवेद - मन्त्र संख्या : 683
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - पूर्वमन्त्रे जीवात्मनो बलं स्मृत्वाऽथ परमात्मनो महिमानमाह।
पदार्थः -
हे मदीय आत्मन् ! (कः) कमनीयः सर्वातिक्रान्तः, सुखस्वरूपश्च। [कः कमनो वा क्रमणो वा सुखो वा। निरु० १०।२२।] (सत्यः) सत्यमयः, (मदानाम्) आनन्दानाम् (मंहिष्ठः) अतिशयेन दाता (इन्द्रः) परमेश्वरः। [मंहतिः दानकर्मा। निघं० ३।२०। अतिशयेन मंहिता मंहिष्ठः। तुरिष्ठेमेयस्सु अ० ६।४।१५४ इति तृचो लोपः।] (त्वा) त्वाम् (अन्धसः) आनन्दरसात् (मत्सत्) आनन्दयेत्। [मदी हर्षे धातोर्लेटि रूपम्।] अपि च सः (दृढा चित्) दृढानि अपि विघ्नबाधादीनि (आरुजे) आ समन्तात् भङ्क्तुम् (वसु) शक्तिरूपम् ऐश्वर्यं प्रयच्छेदिति शेषः ॥२॥२
भावार्थः - जीवात्मा परमात्मना प्रदत्तेनैव बलेनानन्देन च बलवानानन्दवाँश्च जायते ॥२॥
टिप्पणीः -
१. ऋ० ४।३१।२, य० २७।४०, ३६।५, अथ० २०।१२४।२। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये ब्रह्मचर्यादिधर्माचरणपक्षे, यजुर्भाष्ये च क्रमशो विद्वत्पक्षे परमेश्वरपक्षे च व्याख्यातवान्।