Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 688
ऋषिः - कलिः प्रागाथः देवता - इन्द्रः छन्दः - प्रगाथः(विषमा बृहती समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
6

न꣢꣫ यं दु꣣ध्रा꣡ वर꣢꣯न्ते꣣ न꣢ स्थि꣣रा꣢꣫ मुरो꣣ म꣡दे꣢षु शि꣣प्र꣡मन्ध꣢꣯सः । य꣢ आ꣣दृ꣡त्या꣢ शशमा꣣ना꣡य꣢ सुन्व꣣ते꣡ दाता꣢꣯ जरि꣣त्र꣢ उ꣣꣬क्थ्य꣢꣯म् ॥६८८॥

स्वर सहित पद पाठ

न । यम् । दु꣣ध्राः꣢ । व꣡र꣢꣯न्ते । न । स्थि꣣राः꣢ । मु꣡रः꣢꣯ । म꣡देषु꣢꣯ । शि꣣प्र꣢म् । अ꣡न्ध꣢꣯सः । यः । आ꣣दृ꣡त्य꣢ । आ꣣ । दृ꣡त्य꣢꣯ । श꣣शमाना꣡य꣢ । सु꣣न्वते꣢ । दा꣡ता꣢꣯ । ज꣣रित्रे꣢ । उ꣣क्थ्य꣢म् ॥६८८॥


स्वर रहित मन्त्र

न यं दुध्रा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः । य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥६८८॥


स्वर रहित पद पाठ

न । यम् । दुध्राः । वरन्ते । न । स्थिराः । मुरः । मदेषु । शिप्रम् । अन्धसः । यः । आदृत्य । आ । दृत्य । शशमानाय । सुन्वते । दाता । जरित्रे । उक्थ्यम् ॥६८८॥

सामवेद - मन्त्र संख्या : 688
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थः -
(शिप्रम्) सृप्रं, सर्वान्तर्यामिणम्। [सृप्रः सर्पणात्। सुशिप्रमेतेन व्याख्यातम्। निरु० ६।१७।७२।] (यम्) परमेश्वरम् (अन्धसः) आनन्दरसस्य (मदेषु) तृप्तिप्रदानेषु (दुधाः) दुर्धराः अपि शत्रवः (न वरन्ते) न वारयन्ति। [वृञ् आवरणे चुरादिः, तत्र ‘आधृषाद् वा’ इति नियमेन पक्षे शप्, आत्मनेपदं छान्दसम्।] (न) न च (स्थिराः) अविचलाः (मुरः) मर्त्याः। [म्रियन्ते इति मुरः मर्त्याः।] वरन्ते वारयन्ति, (यः) यश्च परमेश्वरः (शशमानाय२) उद्योगिने, पुरुषार्थिने [शश प्लतुगतौ।] (सुन्वते) भक्तिरसं निष्पादयते (जरित्रे३) स्तोत्रे (उक्थ्यम्) वक्तव्यप्रशंसं दिव्यम् ऐश्वर्यम् (आदृत्य) विदार्य, स्वधनागारात् उद्धृत्य इति भावः, (दाता) अर्पयिता, भवतीति शेषः ॥२॥

भावार्थः - यदा परमेश्वरः स्वोपासकाय ब्रह्मानन्दवृष्ट्या तर्पयितुकामो जायते तदा तं तस्मात् कोऽपि निवारयितुं न शक्नोति ॥२॥ पूर्वखण्डे गुरुशिष्यवर्णनादस्मिन् खण्डे च जीवात्मपरमात्मनोः परमात्मसाक्षात्कारयितुराचार्यस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति।

इस भाष्य को एडिट करें
Top