Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 691
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

व꣣रिवोधा꣡त꣢मो भुवो꣣ म꣡ꣳहि꣢ष्ठो वृत्र꣣ह꣡न्त꣢मः । प꣢र्षि꣣ रा꣡धो꣢ म꣣घो꣡ना꣢म् ॥६९१॥

स्वर सहित पद पाठ

वरिवोधा꣡त꣢मः । व꣣रिवः । धा꣡त꣢꣯मः । भु꣣वः । म꣡ꣳहि꣢꣯ष्ठः । वृ꣣त्र꣡हन्त꣢मः । वृ꣣त्र । ह꣡न्त꣢꣯मः । प꣡र्षि꣢꣯ । रा꣡धः꣢꣯ । म꣣घो꣡ना꣢म् ॥६९१॥


स्वर रहित मन्त्र

वरिवोधातमो भुवो मꣳहिष्ठो वृत्रहन्तमः । पर्षि राधो मघोनाम् ॥६९१॥


स्वर रहित पद पाठ

वरिवोधातमः । वरिवः । धातमः । भुवः । मꣳहिष्ठः । वृत्रहन्तमः । वृत्र । हन्तमः । पर्षि । राधः । मघोनाम् ॥६९१॥

सामवेद - मन्त्र संख्या : 691
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
हे इन्द्र परमात्मन् ! त्वम् (वरिवोधातमः) धनानाम् अतिशयेन धारयिता। [वरिवः इति धननाम निघ० २।१०।] (मंहिष्ठः२) दातृतमः [मंहते दानकर्मा। निघ० ३।२०।] (वृत्रहन्तमः) पापानाम् अतिशयेन हन्ता च (भुवः) जातोऽसि। त्वमेव (मघोनाम्) भौतिकधनवताम् अस्माकम् (राधः) सत्यन्यायदयामोक्षादिकं दिव्यं धनम् (पर्षि) प्रयच्छ। [पृ पालनपूरणयोः जुहोत्यादिः, लेटि मध्यमैकवचने छान्दसं रूपम्।] ॥३॥

भावार्थः - स एव वस्तुतो धनिको यो भौतिकधनेन साकमध्यात्मं धनमपि समर्जति ॥३॥

इस भाष्य को एडिट करें
Top