Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 702
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
4
अ꣡व꣢ द्युता꣣नः꣢ क꣣ल꣡शा꣢ꣳ अचिक्रद꣣न्नृ꣡भि꣢र्येमा꣣णः꣢꣫ कोश꣣ आ꣡ हि꣢र꣣ण्य꣡ये꣢ । अ꣣भी꣢ ऋ꣣त꣡स्य꣢ दो꣣ह꣡ना꣢ अनूष꣣ता꣡धि꣢ त्रिपृ꣣ष्ठ꣢ उ꣣ष꣢सो꣣ वि꣡ रा꣢जसि ॥७०२॥
स्वर सहित पद पाठअ꣡व꣢꣯ । द्यु꣣तानः꣢ । क꣣ल꣡शा꣢न् । अ꣣चिक्रदत् । नृ꣡भिः꣢꣯ । ये꣣मानः꣢ । को꣡शे꣢꣯ । आ । हि꣣रण्य꣡ये꣢ । अ꣡भि꣢ । ऋ꣣त꣡स्य꣢ । दो꣣ह꣡नाः꣢ । अ꣣नूषत । अ꣡धि꣢꣯ । त्रि꣣पृष्ठः꣢ । त्रि꣣ । पृष्ठः꣢ । उ꣣ष꣡सः꣢ । वि । रा꣣जसि ॥७०२॥
स्वर रहित मन्त्र
अव द्युतानः कलशाꣳ अचिक्रदन्नृभिर्येमाणः कोश आ हिरण्यये । अभी ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजसि ॥७०२॥
स्वर रहित पद पाठ
अव । द्युतानः । कलशान् । अचिक्रदत् । नृभिः । येमानः । कोशे । आ । हिरण्यये । अभि । ऋतस्य । दोहनाः । अनूषत । अधि । त्रिपृष्ठः । त्रि । पृष्ठः । उषसः । वि । राजसि ॥७०२॥
सामवेद - मन्त्र संख्या : 702
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 5; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 5; मन्त्र » 3
Acknowledgment
विषयः - अथ ब्रह्मानन्दरसं वर्णयति।
पदार्थः -
(नृभिः) उपासकजनैः (हिरण्यये कोशे) ज्योतिर्मये विज्ञानमयकोशे (येमाणः२) नियम्यमानः (द्युतानः) दीप्ययानः। [द्युत दीप्तौ, भ्वादिः।] ब्रह्मानन्दरूपः सोमरसः (कलशान्) आत्मरूपान् द्रोणकलशान् प्रति (अव अचिक्रदत्) कलकलध्वनिमिव कुर्वन् गच्छति। (ऋतस्य) सत्यस्य ब्रह्मानन्दरसस्य (दोहनाः) दोग्धारः उपासकाः तं रसम् (अभि अनूषत) अभिष्टुवन्ति। (त्रिपृष्ठः३) त्रीणि ज्ञानकर्मोपासनानि पृष्ठानि आधारा यस्य सः ब्रह्मानन्दरूपसोमः त्वम् (उषसः अधि) उषर्वेलायां सन्ध्योपासने (वि राजसि) विशेषेण प्रकाशसे ॥३॥
भावार्थः - योगद्वारा ब्रह्मानन्दरसेन स्वात्मानमुपसिच्य योगिनो जनाः कृतार्था भवन्तु ॥३॥ अस्मिन् खण्डे आचार्यपरमात्मजीवात्मज्ञानकर्मोपासनावेदब्रह्मानन्द- विषयवर्णनादस्य खण्डस्य पूर्वखण्डेन सह संगतिर्वेद्या ॥
टिप्पणीः -
१. ऋ० ९।७५।३, ‘येमा॒नः’ ‘अ॒भीमृ॒तस्य॑’ ‘विरा॑जति’ इति पाठः। २. येमानः, छन्दसि कर्मणि लिटि कानचि रूपम्—इति सा०। ३. त्रिपृष्ठः त्रिस्थाने त्रिलोकावस्थानः, अथवा त्रिपृष्ठः ऋग्यजुः सामभिः अथवा त्रिभिर्गुणैर्दैवैः सवनैर्वा—इति वि०।