Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 718
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

त्वं꣡ न इ꣢न्द्र वाज꣣यु꣢꣫स्त्वं ग꣣व्युः꣡ श꣢तक्रतो । त्व꣡ꣳ हि꣢रण्य꣣यु꣡र्व꣢सो ॥७१८॥

स्वर सहित पद पाठ

त्व꣢म् । नः꣣ । इन्द्रः । वाजयुः꣢ । त्वम् । ग꣣व्युः꣢ । श꣣तक्रतो । शत । क्रतो । त्व꣢म् । हि꣣रण्ययुः꣢ । व꣣सो ॥७१८॥


स्वर रहित मन्त्र

त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो । त्वꣳ हिरण्ययुर्वसो ॥७१८॥


स्वर रहित पद पाठ

त्वम् । नः । इन्द्रः । वाजयुः । त्वम् । गव्युः । शतक्रतो । शत । क्रतो । त्वम् । हिरण्ययुः । वसो ॥७१८॥

सामवेद - मन्त्र संख्या : 718
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (इन्द्र) सर्वान्तर्यामिन् जगदीश्वर ! (नः) अस्मभ्यम् (वाजयुः) अन्नधनबलविज्ञानादिप्रदानकामो भव, हे (शतक्रतो१) अनन्तप्रज्ञ अनन्तकर्मन् ! (त्वम् गव्युः) गोप्रदानकामो भव। हे (वसो) निवासप्रद ! (त्वम् हिरण्ययुः) सुवर्णप्रदानकामो ज्योतिष्प्रदानकामो वा भव ॥३॥२

भावार्थः - परमात्मानमुपास्य तत्कृपया वयम् अन्नधनधेनुबलवेगविज्ञान- सत्संकल्पसद्विचारसद्विवेकसत्प्रकाशसत्कर्मसद्गुणदुःख-मोक्षादिरूपां सर्वामपि भौतिकीं दिव्यां च सम्पदं प्राप्तुमर्हेम ॥३॥

इस भाष्य को एडिट करें
Top