Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 719
ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
व꣣य꣡मु꣢ त्वा त꣣दि꣡द꣢र्था꣣ इ꣡न्द्र꣢ त्वा꣣य꣢न्तः꣣ स꣡खा꣢यः । क꣡ण्वा꣢ उ꣣क्थे꣡भि꣢र्जरन्ते ॥७१९॥
स्वर सहित पद पाठव꣣य꣢म् । उ꣣ । त्वा । तदि꣡द꣢र्थाः । त꣣दि꣢त् । अर्थाः । इ꣡न्द्र꣢꣯ । त्वा꣣य꣡न्तः꣢ । स꣡खा꣢꣯यः । स । खा꣣यः । क꣡ण्वाः꣢꣯ । उ꣣क्थे꣡भिः꣢ । ज꣣रन्ते ॥७१९॥
स्वर रहित मन्त्र
वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः । कण्वा उक्थेभिर्जरन्ते ॥७१९॥
स्वर रहित पद पाठ
वयम् । उ । त्वा । तदिदर्थाः । तदित् । अर्थाः । इन्द्र । त्वायन्तः । सखायः । स । खायः । कण्वाः । उक्थेभिः । जरन्ते ॥७१९॥
सामवेद - मन्त्र संख्या : 719
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके १५७ क्रमाङ्के परमात्मार्चनविषये व्याख्याता। अत्र शिष्या आचार्यं निवेदयन्ति।
पदार्थः -
हे आचार्यप्रवर ! (तदिदर्थाः) तदित् तदेव लौकिकविद्याब्रह्मविद्याध्ययनम् (अर्थः) प्रयोजनं येषां तथाविधाः (वयम्) विद्यार्थिनः (त्वा) त्वाम्, उपैमः इति शेषः। हे (इन्द्र) विद्याधिपते ! (सखायः) सहाध्यायिनो वयम् (त्वायन्तः) त्वां कामयमानाः स्मः। सर्वे एव (कण्वाः) मेधाविनो विद्यार्थिनः (उक्थेभिः) स्तोत्रैः, त्वाम् (जरन्ते) स्तुवन्ति ॥१॥
भावार्थः - शिष्यैर्गुरून् प्रति सदैव विनयेन वर्तनीयं, नित्यं ते परिचरणीयाश्च। उक्तञ्च यथा, “अध्यापिता ये गुरुं नाद्रियन्ते विप्रा वाचा मनसा कर्मणा वा। यथैव ते न गुरोर्भोजनीयास्तथैव तान्न भुनक्ति श्रुतं तत्” (निरु० २।४)इति ॥१॥
टिप्पणीः -
३. ऋ० ८।२।१६, अथ० २०।१८।१, साम० १५७।