Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 726
ऋषिः - इरिम्बिठिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
शा꣡चि꣢गो꣣ शा꣡चि꣢पूजना꣣य꣡ꣳ रणा꣢꣯य ते सु꣣तः꣢ । आ꣡ख꣢ण्डल꣣ प्र꣡ हू꣢यसे ॥७२६॥
स्वर सहित पद पाठशा꣡चि꣢꣯गो । शा꣡चि꣢꣯ । गो꣣ । शा꣡चि꣢꣯पूजन । शा꣡चि꣢꣯ । पू꣣जन । अय꣢म् । र꣡णा꣢꣯य । ते꣣ । सुतः꣢ । आ꣡ख꣢꣯ण्डल । प्र । हू꣡यसे ॥७२६॥
स्वर रहित मन्त्र
शाचिगो शाचिपूजनायꣳ रणाय ते सुतः । आखण्डल प्र हूयसे ॥७२६॥
स्वर रहित पद पाठ
शाचिगो । शाचि । गो । शाचिपूजन । शाचि । पूजन । अयम् । रणाय । ते । सुतः । आखण्डल । प्र । हूयसे ॥७२६॥
सामवेद - मन्त्र संख्या : 726
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - गुरोरध्यात्मविद्याग्रहणानन्तरं शिष्याः परमेश्वरमाह्वयन्ति।
पदार्थः -
हे (शाचिगो३) शाचयः ज्ञानकर्मोपदेशिकाः गावः वेदवाचः यस्य तादृश जगदीश्वर ! हे (शाचिपूजन) शाचिभिः ज्ञानिभिः पुरुषार्थिभिश्च पूज्यते यः तादृश परमात्मन् ! [शचीशब्दस्य प्रज्ञानामसु निघं० ३।९ कर्मनामसु च निघं० २।१ पाठात् शच धातुः ज्ञानकर्मार्थो बोध्यः।] (अयम्) एषः भक्तिरसः (ते) तव (रणाय) रमणाय (सुतः) अस्माभिः उत्पादितः अस्ति। हे (आखण्डल) दुःखदुर्गुणदुर्व्यसनादीनाम् आखण्डयितः देव ! त्वम् तं भक्तिरसं प्रति (प्रहूयसे) अस्माभिः प्रकृष्टतया सोत्कण्ठम् आहूयसे ॥२॥
भावार्थः - ज्ञानपुरुषार्थपूर्वकं भक्तिभावेनाराधितः परमेश्वर उपासकानां दुःखदारिद्र्यादिकं विखण्ड्य तान् ऋद्धिसिद्धिप्रदानेन सुखयति ॥२॥
टिप्पणीः -
२. ऋ० ८।१७।१२, अथ० २०।५।६। ३. शाचयः शक्ता गावो यस्य स शाचिगुः, यद् वा शच व्यक्तायां वाचि अस्मादौणादिक इञ् प्रत्ययः। शाचयः व्यक्ताः प्रख्याता गावो रश्मयो वा यस्य तादृशः—इति सा०। शचीति कर्मनाम, कर्मणि प्रयुक्ते गावः प्रदीयन्ते यस्य असौ शाचिगुः। कर्मणि पूज्यते इति शाचिपूजनः—इति वि०।