Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 732
ऋषिः - त्रिशोकः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
मा꣡ त्वा꣢ मू꣣रा꣡ अ꣢वि꣣ष्य꣢वो꣣ मो꣢प꣣ह꣡स्वा꣢न꣣ आ꣡ द꣢भन् । मा꣡ कीं꣢ ब्रह्म꣣द्वि꣡षं꣢ वनः ॥७३२॥
स्वर सहित पद पाठमा । त्वा꣣ । मूराः꣢ । अ꣣विष्य꣡वः꣢ । मा । उ꣣प꣡ह꣢स्वानः । उप । ह꣡स्वा꣢꣯नः । आ । द꣣भन् । मा꣢ । की꣣म् । ब्रह्मद्वि꣡ष꣢म् । ब्र꣣ह्म । द्वि꣡ष꣢꣯म् । व꣣नः ॥७३२॥
स्वर रहित मन्त्र
मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् । मा कीं ब्रह्मद्विषं वनः ॥७३२॥
स्वर रहित पद पाठ
मा । त्वा । मूराः । अविष्यवः । मा । उपहस्वानः । उप । हस्वानः । आ । दभन् । मा । कीम् । ब्रह्मद्विषम् । ब्रह्म । द्विषम् । वनः ॥७३२॥
सामवेद - मन्त्र संख्या : 732
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि स्वान्तरात्मानमुद्बोधयति।
पदार्थः -
हे मदीय अन्तरात्मन् ! (मा) नैव (मूराः) मूढाः (अविष्यवः) भक्षकाः, जिघांसवः इत्यर्थः। [अविष्यति अत्तिकर्मा। निघं० २।८।] (मा) नैव च (उपहस्वानः) उपहासपरायणाः जनाः (त्वा) त्वाम् (आ दभन्) हिंसन्तु। [दभ्नोतिर्वधकर्मा। निघं० २।१९।] (मा कीम्) नैव च, त्वम् (ब्रह्मद्विषम्) ब्रह्मद्वेष्टारं जनम् (वनः) संभजस्व। [वन संभक्तौ, भ्वादिः, लेटि रूपम्] ॥२॥
भावार्थः - मनुष्यस्यान्तरात्मा यदि जागरूको भवेत् तदा तं कोऽपि बाह्य आभ्यन्तरो वा रिपुः पराजेतुं न शक्नुयात् ॥२॥
टिप्पणीः -
२. ८।४५।२३, अथ० २०।२२।२, उभयत्र ‘ब्रह्म॒द्विषो॑’ इति पाठः।