Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 734
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
इ꣣द꣡म् व꣢सो सु꣣त꣢꣫मन्धः꣣ पि꣢बा꣣ सु꣡पू꣢र्णमु꣣द꣡र꣢म् । अ꣡ना꣢भयिन्ररि꣣मा꣡ ते꣢ ॥७३४॥
स्वर सहित पद पाठइ꣣द꣢म् । वसो । सुत꣢म् । अ꣡न्धः꣢꣯ । पि꣡ब꣢꣯ । सु꣡पू꣢꣯र्णम् । सु । पू꣣र्णम् । उद꣡र꣢म् । उ꣣ । द꣡र꣢꣯म् । अ꣡ना꣢꣯भयिन् । अन् । आ꣣भयिन् । ररिम꣢ । ते꣣ ॥७३४॥
स्वर रहित मन्त्र
इदम् वसो सुतमन्धः पिबा सुपूर्णमुदरम् । अनाभयिन्ररिमा ते ॥७३४॥
स्वर रहित पद पाठ
इदम् । वसो । सुतम् । अन्धः । पिब । सुपूर्णम् । सु । पूर्णम् । उदरम् । उ । दरम् । अनाभयिन् । अन् । आभयिन् । ररिम । ते ॥७३४॥
सामवेद - मन्त्र संख्या : 734
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके १२४ क्रमाङ्गे परमात्मविषयेऽतिथिविषये च व्याख्याता। अत्र गुरवः शिष्यं ब्रह्मज्ञानरसं पाययन्ति।
पदार्थः -
हे (वसो) गुरुकुले कृतनिवास व्रतपालक ब्रह्मचारिन् ! (इदम् अन्धः) एतद् ब्रह्मविज्ञानम् तुभ्यम् (सुतम्) अभिषुतमस्ति, त्वम् एतत् (सुपूर्णम् उदरम्) कणेहत्य (पिब) आस्वादय। हे (अनाभयिन्) निर्भय शिष्य ! वयम् (ते) तुभ्यम्, एतद् विज्ञानम् (ररिम) प्रयच्छामः ॥१॥
भावार्थः - कृतब्रह्मसाक्षात्कारैर्गुरुभिश्छात्रा ब्रह्मज्ञानदानेनानुग्राह्याः ॥१॥
टिप्पणीः -
१. ऋ० ८।२।१, साम० १२४।