Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 736
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

तं꣢ ते꣣ य꣢वं꣣ य꣢था꣣ गो꣡भिः꣢ स्वा꣣दु꣡म꣢कर्म श्री꣣ण꣡न्तः꣢ । इ꣡न्द्र꣢ त्वा꣣स्मिं꣡त्स꣢ध꣣मा꣡दे꣢ ॥७३६॥

स्वर सहित पद पाठ

तम् । ते꣣ । य꣡व꣢꣯म् । य꣡था꣢꣯ । गो꣡भिः꣢꣯ । स्वा꣣दु꣢म् । अ꣣कर्म । श्रीण꣡न्तः꣢ । इ꣡न्द्र꣢꣯ । त्वा꣣ । अस्मि꣣न् । स꣣धमा꣡दे꣢ । स꣣ध । मा꣡दे꣢꣯ ॥७३६॥


स्वर रहित मन्त्र

तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः । इन्द्र त्वास्मिंत्सधमादे ॥७३६॥


स्वर रहित पद पाठ

तम् । ते । यवम् । यथा । गोभिः । स्वादुम् । अकर्म । श्रीणन्तः । इन्द्र । त्वा । अस्मिन् । सधमादे । सध । मादे ॥७३६॥

सामवेद - मन्त्र संख्या : 736
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थः -
हे शिष्य ! (तम्) ब्रह्मविज्ञानरूपं सोमरसम् (गोभिः) मधुराभिः वाग्भिः (श्रीणन्तः) परिपचन्तः वयम्। [श्रीञ् पाके, क्र्यादिः।] (स्वादुम्) मधुरम् (अकर्म२) अकार्ष्म। कथमिव ? (यथा) येन प्रकारेण (यवम्) यवरसम् (गोभिः) गव्यैः क्षीरैः स्वादुं कुर्मः तद्वत्। हे (इन्द्र) प्रिय शिष्य ! (अस्मिन्) एतस्मिन् (सधमादे) सह माद्यन्ति ब्रह्मज्ञानदानेन शिष्या अत्र इति सधमादः विद्यायज्ञः तत्र (त्वा) त्वाम् ब्रह्मज्ञानरसं पातुम् आह्वयाम इति शेषः ॥३॥ अत्र श्लिष्टोपमालङ्कारः ॥३॥

भावार्थः - गुरुभिः शिष्येभ्यो लौकिकं ज्ञानं ब्रह्मज्ञानं च नीरसरूपेण न किन्तु सरसरूपेण प्रदातव्यं, येन तत्र तेषां रुचिर्भवेत् ॥३॥ अस्मिन् खण्डे गुरुशिष्यविषयस्य, परमेश्वरजीवात्मविषयस्य, ब्रह्मज्ञानविषयस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति ॥

इस भाष्य को एडिट करें
Top