Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 737
ऋषिः - विश्वामित्रो गाथिनः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

इ꣣द꣡ꣳ ह्यन्वोज꣢꣯सा सु꣣त꣡ꣳ रा꣢धानां पते । पि꣢बा꣣ त्वा꣢३स्य꣡ गि꣢र्वणः ॥७३७॥

स्वर सहित पद पाठ

इ꣣द꣢म् । हि । अ꣡नु꣢꣯ । ओ꣡ज꣢꣯सा । सु꣣त꣢म् । रा꣣धानाम् । पते । पि꣡ब꣢꣯ । तु । अ꣣स्य꣢ । गि꣣र्व꣡णः । गिः । वनः ॥७३७॥


स्वर रहित मन्त्र

इदꣳ ह्यन्वोजसा सुतꣳ राधानां पते । पिबा त्वा३स्य गिर्वणः ॥७३७॥


स्वर रहित पद पाठ

इदम् । हि । अनु । ओजसा । सुतम् । राधानाम् । पते । पिब । तु । अस्य । गिर्वणः । गिः । वनः ॥७३७॥

सामवेद - मन्त्र संख्या : 737
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (राधानां पते) सदिच्छामहत्त्वाकाङ्क्षासत्प्रयत्नसुखज्ञानादीनां स्वामिन् मदीय अन्तरात्मन् ! (इदं हि) एष खलु ब्रह्मानन्दरसः (ओजसा) बलेन वेगेन च (अनु सुतम्) आनुकूल्येन अभिषुतः अस्ति। हे (गिर्वणः) गीर्भिः प्रभुभक्तिपरायण आत्मन् ! [गीर्भिः वनति संभजते यः स गिर्वणाः, तत्सम्बुद्धौ।] त्वम् (अस्य) एतं ब्रह्मानन्दरूपं सोमरसम् (तु) शीघ्रम् (पिब) आस्वादय ॥१॥२

भावार्थः - योगानुष्ठानेन ब्रह्मानन्दरसप्रवाहसन्ततिर्यदाऽऽत्मानं व्याप्नोति तदा योगी कृतकृत्यो जायते ॥१॥

इस भाष्य को एडिट करें
Top