Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 754
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - अश्विनौ
छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
3
यु꣣वं꣢ चि꣣त्रं꣡ द꣢दथु꣣र्भो꣡ज꣢नं नरा꣣ चो꣡दे꣢थाꣳ सू꣣नृ꣡ता꣢वते । अ꣣र्वा꣢꣫ग्रथ꣣ꣳ स꣡म꣢नसा꣣ नि꣡ य꣢च्छतं꣣ पि꣡ब꣢तꣳ सो꣣म्यं꣡ मधु꣢꣯ ॥७५४॥
स्वर सहित पद पाठयु꣣व꣢म् । चि꣣त्र꣢म् । द꣣दथुः । भो꣡ज꣢꣯नम् । न꣣रा । चो꣡दे꣢꣯थाम् । सू꣣नृ꣡ता꣢वते । सु꣣ । नृ꣡ता꣢꣯वते । अ꣡र्वा꣢क् । र꣡थ꣢꣯म् । स꣡म꣢꣯नसा । स । म꣣नसा । नि꣢ । य꣡च्छतम् । पि꣡ब꣢꣯तम् । सो꣣म्य꣢म् । म꣡धु꣢꣯ ॥७५४॥
स्वर रहित मन्त्र
युवं चित्रं ददथुर्भोजनं नरा चोदेथाꣳ सूनृतावते । अर्वाग्रथꣳ समनसा नि यच्छतं पिबतꣳ सोम्यं मधु ॥७५४॥
स्वर रहित पद पाठ
युवम् । चित्रम् । ददथुः । भोजनम् । नरा । चोदेथाम् । सूनृतावते । सु । नृतावते । अर्वाक् । रथम् । समनसा । स । मनसा । नि । यच्छतम् । पिबतम् । सोम्यम् । मधु ॥७५४॥
सामवेद - मन्त्र संख्या : 754
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनस्तमेव विषयमाह।
पदार्थः -
हे (नरा) नरौ नेतारौ अश्विनौ ब्राह्मणक्षत्रियौ ! (युवम्) युवाम् (चित्रम्) अद्भुतम् (भोजनम्) पालनम् (ददथुः)प्रयच्छथः, तद् भोजनं पालनम् युवाम् (सूनृतावते) प्रियसत्यवाग्युक्ताय मह्यम् अपि। [सूनृता इति वाङ्नाम। निघं० १।११।] (चोदेथाम्) प्रेरयतम्, प्रयच्छतम्। (समनसा) समनसौ समानमनस्कौ सन्तौ युवाम्, स्वकीयम् (रथम्) वाहनम् (अर्वाक्) अस्मदभिमुखम् (नि यच्छतम्)नियमयतम्, कुरुतम्, अस्मान् प्रति आगच्छतम् इत्यर्थः, आगत्य च (सोम्यम्) सोममयम्। [मये च अ० ४।४।१३८ इति सोमशब्दात् मयडर्थे यः प्रत्ययः।] (मधु) क्षौद्रम् (पिबतम्) आस्वादयतम्, अस्माभिः कृतं सत्कारं गृह्णीतम् इत्यर्थः ॥२॥
भावार्थः - ब्राह्मणा ज्ञानप्रदानेन क्षत्रियाश्च रक्षणप्रदानेन प्रजाजनानुपकुरुतः, अतस्तेषां यथायोग्यं सत्कारस्तेभ्यो लाभग्रहणं च सर्वैः करणीयम् ॥२॥ अस्मिन् खण्डेऽग्निहोत्रस्य, दिव्याया उषसो, दिव्यस्य सूर्यस्य, ब्रह्मक्षत्रयोश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
टिप्पणीः -
१. ऋ० ७।७४।२।