Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 772
ऋषिः - अग्निश्चाक्षुषः
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
5
अ꣣या꣡ प꣢वस्व देव꣣यू꣡ रेभ꣢꣯न्प꣣वि꣢त्रं꣣ प꣡र्ये꣢षि वि꣣श्व꣡तः꣢ । म꣢धो꣣र्धा꣡रा꣢ असृक्षत ॥७७२॥
स्वर सहित पद पाठअ꣣या꣢ । प꣣वस्व । देवयुः꣢ । रे꣡भ꣢꣯न् । प꣣वि꣡त्र꣢म् । प꣡रि꣢꣯ । ए꣣षि । वि꣡श्व꣢तः । म꣡धोः꣢꣯ । धा꣡रा꣢꣯ । अ꣣सृक्षत ॥७७२॥
स्वर रहित मन्त्र
अया पवस्व देवयू रेभन्पवित्रं पर्येषि विश्वतः । मधोर्धारा असृक्षत ॥७७२॥
स्वर रहित पद पाठ
अया । पवस्व । देवयुः । रेभन् । पवित्रम् । परि । एषि । विश्वतः । मधोः । धारा । असृक्षत ॥७७२॥
सामवेद - मन्त्र संख्या : 772
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 6; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 6; सूक्त » 4; मन्त्र » 1
Acknowledgment
विषयः - अथ सोमं परमात्मानं तदीयम् आनन्दरसं च वर्णयति।
पदार्थः -
हे पवमान रसागार सोम परमात्मन् ! (देवयुः) देवं स्तोतारम् उपासकं कामयमानः त्वम् (अया) अनया आनन्दधारया। [अया पवस्व धारया। साम० ४९३ इति वचनात्।] (पवस्व) परिस्रव। (रेभन्) उपदिशन् त्वम्। [रेभृ शब्दे, भ्वादिः।] (विश्वतः) सर्वतः (पवित्रम्)परिपूतम् अन्तःकरणम् (पर्येषि) परि प्राप्नोषि। त्वत्सकाशात् (मधोः) मधुनः, मधुरस्य आनन्दस्य (धाराः) प्रवाहसन्ततयः (असृक्षत) सृज्यन्ते ॥१॥
भावार्थः - आनन्दरसागारात् परमेश्वरात् प्राप्ता आनन्दधारा उपासकं कृतकृत्यं कुर्वन्ति ॥१॥
टिप्पणीः -
१. ऋ० ९।१०६।१४, ‘अ॒या प॑वस्व देव॒युर्मधो॒र्धारा॑ असृक्षत। रेभ॑न् प॒वित्रं॒ पर्ये॑षि वि॒श्वतः॑ ॥’ इति पाठः।